संपूर्णजगतीभागे सर्वे ग्रहपतां गताः
स सूर्यमडलं भित्त्वा मुक्तः शिवपुरं व्रजेत्
अजरामरतां प्राप्तो नासौम्यो भवति क्षितौ
आनृण्यमखिलं प्राप्य सार्वभौमो भवेद्ध्रुवम् 1.3.1.9.
सर्वज्ञतामनुप्राप्तः स वाचां पतितामियात्
प्रदक्षिणेन शोणाद्रेः स तु लोकगुरुर्भवेत्
संप्राप्य महतीं लक्ष्मीं लभते वैष्णवं पदम्
विमुक्तो ग्रहपीडाभिः स विश्वविजयी भवेत्
मम प्रदक्षिणां कर्तुः पुण्यानि सहसा व्रजेत्
अभीष्टफलदा जाताः कुर्वतां मत्प्रदक्षिणाम्
मत्प्रदक्षिणकर्तॄणां जायंते सततं शुभाः
क्षिकारात्क्षीयते कर्म णकारो मुक्तिदायकः
मम प्रदक्षिणं कृत्वा मुच्यंते सर्वदुष्कृतैः
क्षणेन साध्वां पश्यामि त्रैलोक्यस्य प्रदक्षिणाम् 1.3.1.9.
मम प्रदक्षिणां कृत्वा स्थिरा राज्ये पुराऽभवन्
उत्तरायणसंयोगे करोमि स्वप्रदक्षिणाम्
त्रैलोक्यस्य हितार्थाय करिष्यामि प्रदक्षिणाम्
कर्तुं प्रदक्षिणं कृत्वा मामेष्यत्यनघा पुनः
मम प्रदक्षिणां गौरी प्रदोषे रचयिष्यति
ज्योतिर्लिगस्य दृष्टस्य देवी प्रार्थनया तथा
आश्वास्यति सुरान्सर्वानुत्तरायणसंगमे
सर्वेषां देवयोनीनां भविता तत्र संगमः
सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजंति ते
तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः 1.3.1.9.
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः
तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम्
न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम्
धर्मकेतुः पुरा राजा यमलोकादुपागतः
क्षणेन तुरगो जातो गणनाथः सुरार्चितः
वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम्