अलर्केशः समभ्यर्च्यः शुक्रेशात्पूर्वदिक्स्थितः 4.2.97.
विशालाक्षीश्वरं लिंगं तत्रैव क्षेत्रवस्तिदम् 4.2.97.
तद्दक्षिणे च केदारो रुद्रानुचरताप्रदः 4.2.97.
यात्रया सर्व लिंगानां यत्फलं तदवाप्यते 4.2.97.
स्वर्गापवर्गयोर्दात्री दृष्टा देहांतसेविता 4.2.97.
सर्वलिंगमयाध्यायं योऽमुं नित्यं जपेत्सुधीः 4.2.97.
महापापानि पापानि ज्ञाताज्ञातानि भूरिशः 4.2.97.
दिव्यं रथं समारुह्य निर्जगाम त्रिविष्टपात्
ॐनमो भगवते वासुदेवाय देवीं सरस्वती चैव ततो जयमुदीरयेत्॥ १.
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः॥ १.
तेषां सदर्शनौत्सुक्यादागतो हि महातपाः १.
तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः १.
दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः १.
कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः १.
संमार्जने किं फलं स्यात्तथा रंगावलीषु च १.
प्रदाने च वितानस्य तथा धारागृहस्य च १.
कानिकानि च पुण्यानि कथ्यतां शिवपूजने १.
शिवस्याग्रे प्रकुर्वंति कारयन्त्यथ वा नराः १.
शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने॥ १.
इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम् १.
अष्टादशपुराणेषु गीयते वै परः शिवः १.
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः १.
उदारो हि महादेवो देवानां पतिरिश्वरः १.
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.
विना सदाशिवं योहि संसारं तर्तुमिच्छति १.
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः १.
यथा गरं भक्षितं च यथा यज्ञो विनाशितः १.
दाक्षायणी पुरा दत्ता शंकराय महात्मने १.
एकदा हि स दक्षो वै नैमिषारण्यमागतः १.
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.