तत्र स्नात्वा विलोक्येशं विमलो जायते नरः
विधिपूर्वं तदभ्यर्च्य प्राप्नुयाच्छिवमंदिरम्
तत्र सिद्धः पाशुपतः कपिलर्षिर्महातपाः
तां गुहां प्रविशेद्यो वै न स गर्भे विशेत्क्वचित्
ओंकार एष एवासावादिवर्णमयात्मकः
नादेशः परमं ब्रह्म नादेशः परमा गतिः 4.2.97.
कदाचित्तस्य देवस्य दर्शने याति जाह्नवी
मत्स्योदरी यदा गंगा पश्चिमे कपिलेश्वरम्
उद्दालकेश्वरं लिंगमुदीच्यां कपिलेश्वरात्
तदुत्तरे बाष्कुलीशं लिंगं सर्वार्थसिद्धिदम्
तस्यार्चनेन रत्नौघैर्न वियुज्येत कर्हिचित्
संसेव्य परमं ज्ञानं लभेदद्यापि साधकः
अघोरोद इति ख्यातो वाजिमेधफलप्रदः
अनेनैवेह देहेन यत्र तौ सिद्धिमापतुः
तद्दक्षिणे महाकुंडं रुद्रावास इति स्मृतम्
चतुर्दशी यदापर्णे रुद्रनक्षत्र संयुता 4.2.97.
रुद्रकुंडे नरः स्नात्वा दृष्ट्वा रुद्रेश्वरं विभुम्
रुद्रस्य नैर्ऋते भागे लिंगं तत्र महालयम्
तत्र श्राद्धं नरः कृत्वा पिंडान्कूपे परिक्षिपेत्
तत्र वैतरणी नाम दीर्घिका पश्चिमानना
बृहस्पतीश्वरं लिंगं रुद्रकुंडाच्च पश्चिमे
रुद्रावासाद्दक्षिणतः कामेशं लिंगमुत्तमम्
चैत्रशुक्ल त्रयोदश्यां तत्र यात्रा च कामदा
अज्ञानध्वांतपटलीं हरतस्तौ समर्चितौ
तत्र सिद्धीश्वरं लिंगं महासिद्धिसमर्पकम् 4.2.97.
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च वीज्यते तदा तेनैव मार्गेण यांति स्त्रीभिर्वृताः सुखम् ।।4.2.97.
स्वर्गद्वारमतः ख्यातं तत्स्थानं मुनिसत्तम
आग्नेयं नाम कुंडं च तत्पूर्वेग्निसलोकदम् 4.2.97.
अपराधसहस्रं तु नश्येत्तस्य समर्चनात् ।। 4.2.97.
तदुत्तरे हलीशेशः सर्वव्याधिनिपूदनः 4.2.97.