स्नानं कृत्वा ह्रदे तत्र दृष्ट्वा शूलेश्वरं विभुम्
तत्पूर्वतो नारदेन तपस्तप्तं महत्तरम्
तत्र कुंडे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम्
नारदेश्वर पूर्वेण दृष्ट्वाऽवभ्रातकेश्वरम्
तदग्रे ताम्रकुंडं च तत्र स्नातो न गर्भभाक्
तत्र विघ्नहरं कुंडं तत्र स्नातो न विघ्नभाक्
कुंडं चानारकाख्यं वै तत्र स्नातो न नारकी 4.2.97.
तत्र पाशुपतः सिद्धस्त्वक्षपादो महामुने
तत्पश्चिमे च शैलेशः परनिर्वाणकामदः
कोटितीर्थे ह्रदे स्नात्वा कोटीशं परिपूज्य च
महाश्मशानस्तंभोस्ति कोटीशाद्वह्निदिक्स्थितः
तं स्तंभं समलंकृत्य नरस्तत्पदमाप्नुयात्
कपालमोचनं नाम तत्र स्नातोऽश्वमेधभाक्
तत्र तीर्थे नरः स्नात्वा मुक्तो भवति चर्णतः
स्नात्वांगारक तीर्थे तु भवेद्भूयो न गर्भभाक् व्याधिभिर्नाभि भूयेत न च दुःखी कदाचन
विश्वकर्मेश्वरं लिंगं ज्ञानदं च तदुत्तरे
कूपः शुभोद नामापि स्नातव्यं तत्र निश्चितम् 4.2.97.
महामुंडा ततो देवी समुत्पन्नाघहारिणी
निष्पापो जायते मर्त्यः खट्वांगेश विलोकनात्
तत्र कुंडे नरः स्नातो भुवने शोभवेन्नरः
तत्र स्नात्वा विलोक्येशं विमलो जायते नरः
विधिपूर्वं तदभ्यर्च्य प्राप्नुयाच्छिवमंदिरम्
तत्र सिद्धः पाशुपतः कपिलर्षिर्महातपाः
तां गुहां प्रविशेद्यो वै न स गर्भे विशेत्क्वचित्
ओंकार एष एवासावादिवर्णमयात्मकः
नादेशः परमं ब्रह्म नादेशः परमा गतिः 4.2.97.
कदाचित्तस्य देवस्य दर्शने याति जाह्नवी
मत्स्योदरी यदा गंगा पश्चिमे कपिलेश्वरम्
उद्दालकेश्वरं लिंगमुदीच्यां कपिलेश्वरात्
तदुत्तरे बाष्कुलीशं लिंगं सर्वार्थसिद्धिदम्