महाबुद्धिप्रदस्तत्र पूज्यो जांबवतीश्वरः
तदुत्तरे भद्रह्रदो गवां क्षीरेण पूरितः
तत्फलं लभते मर्त्यः स्नातो भद्रह्रदे ध्रुवम्
तदा पुण्यतमः कालो वाजिमेधफलप्रदः
गोलोकं प्राप्नुयात्तस्मात्पुण्यान्नैवात्र संशयः
तस्य लिंगस्य संस्पर्शात्परा शांतिं समृच्छति
त्यजेदश्रेयसो राशिं श्रेयोराशिं च विंदति 4.2.97.
तदुत्तरे चक्रह्रदो महापुण्यविवर्धनः
शिवलोकमवाप्नोति भावितेनांतरात्मना
शूलं तत्र पुरा न्यस्तं स्नानार्थं वरवर्णिनि
स्नानं कृत्वा ह्रदे तत्र दृष्ट्वा शूलेश्वरं विभुम्
तत्पूर्वतो नारदेन तपस्तप्तं महत्तरम्
तत्र कुंडे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम्
नारदेश्वर पूर्वेण दृष्ट्वाऽवभ्रातकेश्वरम्
तदग्रे ताम्रकुंडं च तत्र स्नातो न गर्भभाक्
तत्र विघ्नहरं कुंडं तत्र स्नातो न विघ्नभाक्
कुंडं चानारकाख्यं वै तत्र स्नातो न नारकी 4.2.97.
तत्र पाशुपतः सिद्धस्त्वक्षपादो महामुने
तत्पश्चिमे च शैलेशः परनिर्वाणकामदः
कोटितीर्थे ह्रदे स्नात्वा कोटीशं परिपूज्य च
महाश्मशानस्तंभोस्ति कोटीशाद्वह्निदिक्स्थितः
तं स्तंभं समलंकृत्य नरस्तत्पदमाप्नुयात्
कपालमोचनं नाम तत्र स्नातोऽश्वमेधभाक्
तत्र तीर्थे नरः स्नात्वा मुक्तो भवति चर्णतः
स्नात्वांगारक तीर्थे तु भवेद्भूयो न गर्भभाक् व्याधिभिर्नाभि भूयेत न च दुःखी कदाचन
विश्वकर्मेश्वरं लिंगं ज्ञानदं च तदुत्तरे
कूपः शुभोद नामापि स्नातव्यं तत्र निश्चितम् 4.2.97.
महामुंडा ततो देवी समुत्पन्नाघहारिणी
निष्पापो जायते मर्त्यः खट्वांगेश विलोकनात्
तत्र कुंडे नरः स्नातो भुवने शोभवेन्नरः