तस्य संपूजनान्मर्त्यो विज्वरो जायते क्षणात्
वेदेश्वरादुदीच्यां तु क्षेत्रज्ञश्चादिकेशवः
संगमेश्वरमालोक्य तत्प्राच्याम जायतेनघः
प्रयागसंज्ञकम लिंगमर्चितम ब्रह्मलोकदम्
वरणायास्तटे पूर्वे पूज्यं कुंतीश्वरं नृभिः
कुंतीश्वरादुत्तरतस्तीर्थं वै कापिलो ह्रदः
राजसूयस्य यज्ञस्य फलं त्वविकलं भवेत् 4.2.97.
तत्र श्राद्धे कृते पुत्रैः पितृलोकं प्रयांति ते
तद्दर्शनाद्भवेत्स्त्रीणां पातिव्रत्य फलं स्फुटम्
यां सिद्धिं यः समीहेत स तामाप्नोति तन्नतेः
हिरण्यकूपस्तत्रास्ति हिरण्याश्वसमृद्धिकृत्
मुंडासुरेश्वरं लिंगं तत्प्रतीच्यां च सिद्धिदम्
मुने स्कंदेश्वरं लिंगं महादेवस्य पश्चिमे
तत्पार्श्वतो हि शाखेशो विशाखेशश्च तत्र वै
तेषामपि हि लिंगानि तत्र संति सहस्रशः
नंदीश्वरात्प्रतीच्यां च शिलादेशः कुधीहरः
तद्दक्षिणेट्टहासाख्यं लिंगं सर्वसुखप्रदम् 4.2.97.
प्रसन्नवदनस्तिष्ठेद्भक्तस्तद्दर्शनाच्छुभात्
प्रतीच्यामट्टहासस्य मित्रावरुणनामनी
नैर्ऋत्यां चाट्टहासस्य वृद्धवासिष्ठसंज्ञकम्
वसिष्ठेश समीपस्थः कृष्णेशो विष्णुलोकदः
प्रह्लादेश्वरमभ्यर्च्य तत्पश्चाद्भक्तिवर्धनम्
अतः स्वलीनं तत्पूर्वे लिंगं पूज्यं प्रयत्नतः या गतिर्विहिता तेषां स्वलीने सा तनुत्यजाम्
वैरोचनेश्वरं लिंगं स्वलीनात्पुरतः स्थितम्
तत्रैव लिंगं बाणेशं पूजितं सर्वकामदम्
सर्वाविद्याः प्रसन्नाः स्युस्तस्य लिंगस्य सेवनात्
तत्रैव विकटा देवी सर्वदुःखौघमोचनी 4.2.97.
तत्र जप्ता महामंत्राः क्षिप्रं सिध्यंति नान्यथा
तदर्चनादश्वमेधफलं त्वविकलं भवेत्
महापापौघविध्वंसी सुग्रीवेशस्तदुत्तरे