यादृशः कथितो वच्मि तादृशं शृणु कुंभज
तानि तानीह मे काश्यां तत्रतत्र वद प्रभो
जलाशयेपि तीर्थाख्या जाता मूर्ति परिग्रहात्
मूर्तयो ब्रह्मविष्ण्वर्कशिवविघ्नेश्वरादिकाः
वाराणस्यां महादेवः प्रथमं तीर्थमुच्यते
क्षेत्रपूर्वोत्तरेभागे तद्दृष्टं पशुपाशहृत्
सा पूजिता प्रयत्नेन सुखवस्तिप्रदा सदा
तद्दर्शनाद्भवेत्सम्यग्गोदानजनितं फलम् 4.2.97.
तद्दर्शनाद्भवेत्पुंसां फलं यज्ञसमुद्भवम्
लिंगं दृष्ट्वा प्रयत्नेन वैष्णवं पदमृच्छति
तस्य संपूजनान्मर्त्यो विज्वरो जायते क्षणात्
वेदेश्वरादुदीच्यां तु क्षेत्रज्ञश्चादिकेशवः
संगमेश्वरमालोक्य तत्प्राच्याम जायतेनघः
प्रयागसंज्ञकम लिंगमर्चितम ब्रह्मलोकदम्
वरणायास्तटे पूर्वे पूज्यं कुंतीश्वरं नृभिः
कुंतीश्वरादुत्तरतस्तीर्थं वै कापिलो ह्रदः
राजसूयस्य यज्ञस्य फलं त्वविकलं भवेत् 4.2.97.
तत्र श्राद्धे कृते पुत्रैः पितृलोकं प्रयांति ते
तद्दर्शनाद्भवेत्स्त्रीणां पातिव्रत्य फलं स्फुटम्
यां सिद्धिं यः समीहेत स तामाप्नोति तन्नतेः
हिरण्यकूपस्तत्रास्ति हिरण्याश्वसमृद्धिकृत्
मुंडासुरेश्वरं लिंगं तत्प्रतीच्यां च सिद्धिदम्
मुने स्कंदेश्वरं लिंगं महादेवस्य पश्चिमे
तत्पार्श्वतो हि शाखेशो विशाखेशश्च तत्र वै
तेषामपि हि लिंगानि तत्र संति सहस्रशः
नंदीश्वरात्प्रतीच्यां च शिलादेशः कुधीहरः
तद्दक्षिणेट्टहासाख्यं लिंगं सर्वसुखप्रदम् 4.2.97.
प्रसन्नवदनस्तिष्ठेद्भक्तस्तद्दर्शनाच्छुभात्
प्रतीच्यामट्टहासस्य मित्रावरुणनामनी
नैर्ऋत्यां चाट्टहासस्य वृद्धवासिष्ठसंज्ञकम्