इति ते करुणेशस्य महिमोक्तो महत्तरः
मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा
ज्योतीरूपेश्वरं लिंगं काश्यामन्यत्प्रकाशते 4.2.94.
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम्
यदा भागीरथी गंगा तत्र प्राप्ता सरिद्वरा
पुरा विष्णौ तपत्यत्र तल्लिंगं स्वयमेव हि
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा
एतेष्वपि च लिंगेषु चतुर्दशसु सत्तम
ओंकारादीनि लिंगानि यान्युक्तानि चतुर्दश
षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः
क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिंगरूप्यहो
मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम् 4.2.94.
मोक्षक्षेत्रमिंदं काशी लिंगैरेतैर्मेहामते
आनंदकाननं शंभोः क्षेत्रमेतदनादिमत्
योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि
सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम्
निर्वाणलक्ष्म्याः सदनमेतदानंदकाननम्
अयमेव महालाभ इदमेव परं तपः
अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति
मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम्
मानुष्यं प्राप्य यं मूढा निमेषमितजीवितम्
दुर्लभं जन्म मानुष्यं दुर्लभा काशिकापुरी 4.2.94.
क्व च तादृक्तपांसीह क्व तादृग्योग उत्तमः
सत्यं सत्यं पुनः सत्यं सत्यपूर्वं पुनःपुनः
विश्वेशो मुक्तिदो नित्यं मुक्त्यै चोत्तरवाहिनी
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि
सायुज्यमुक्तिरत्रैव सान्निध्यादिरथान्यतः
कृष्णद्वैपायनो व्यासोऽकथयद्यन्महद्वचः
आश्चर्यभाजनं जातस्तीर्थानि कथयाधुना
आनंदकानने यानि यत्र संति षडानन