अमृतेश समं लिंगं नास्ति क्वापि महीतले
अमृतेश्वर नामापि ये काश्यां परिगृह्णते
मुनेऽन्यच्च महालिंगं करुणेश्वरसंज्ञितम् 4.2.94.
दर्शनात्तस्य लिंगस्य महाकारुणिकस्य वै
स्नातव्यं मणिकर्ण्यां च द्रष्टव्यः करुणेश्वरः
सोमवासरमासाद्य एकभक्तव्रतं चरेत्
तेन व्रतेन संतुष्टः करुणेशः कदाचन
तत्पत्रैस्तत्फलैर्वापि संपूज्यः करुणेश्वरः
तेनार्च्यः करुणावृक्षो देवेशः प्रीयतामिति
प्रसन्नः करुणेशोत्र तस्य दास्यति वांछितम्
इति ते करुणेशस्य महिमोक्तो महत्तरः
मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा
ज्योतीरूपेश्वरं लिंगं काश्यामन्यत्प्रकाशते 4.2.94.
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम्
यदा भागीरथी गंगा तत्र प्राप्ता सरिद्वरा
पुरा विष्णौ तपत्यत्र तल्लिंगं स्वयमेव हि
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा
एतेष्वपि च लिंगेषु चतुर्दशसु सत्तम
ओंकारादीनि लिंगानि यान्युक्तानि चतुर्दश
षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः
क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिंगरूप्यहो
मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम् 4.2.94.
मोक्षक्षेत्रमिंदं काशी लिंगैरेतैर्मेहामते
आनंदकाननं शंभोः क्षेत्रमेतदनादिमत्
योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि
सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम्
निर्वाणलक्ष्म्याः सदनमेतदानंदकाननम्
अयमेव महालाभ इदमेव परं तपः
अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति
मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम्