सरिद्वरा निशम्येति रेवा प्राह महेश्वरम्
निर्द्वंद्वा त्वत्पदद्वंद्वे भक्तिरस्तु महेश्वर
प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् 4.2.92.
यावंत्यो दृषदः संति तव रोधसि नर्मदे
अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम्
सद्यः पापहरा गंगा सप्ताहेन कलिंदजा
अपरं च वरं दद्यां नर्मदे दर्शनाघहे
यत्तल्लिंगं महापुण्यं मुक्तिं दास्यति शाश्वतीम
प्रणमिष्यंति यत्नेन महाश्रेयोभिवृद्धये
परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः
नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम्
वाक्यं मृकंडजमुनेस्तेपि श्रुत्वा मुनीश्वराः
पापकंचुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम् ।। 4.2.92.
स्कंद उवाच । । अमृतेशमुखादीनि यन्नामाप्यमृतप्रदम्
पुरा सनारु नामासीन्मुनिरत्र गृहाश्रमी
लिंगपूजारतो नित्यं नित्यं तीर्थाप्रतिग्रही
स कदाचिद्गतोरण्यं तत्र दष्टः पृदाकुना
सनारुणा समुच्छ्वस्य नीतः स उपजंघनिः
तत्रासीच्छ्रीफलाकारं लिंगमेकं सुगुप्तवत्
सर्पदष्टस्य संस्कारः कथं भवति चेति वै
अथ तं वीक्ष्य स मुनिः सनारुरुपजंघनिम्
प्राणितव्येऽत्र को हेतुर्मच्छिशोरुपजंघनेः
इति यावत्स संधत्ते धियं तज्जीवितैकिकाम् 4.2.94.
आनिनाय च तत्रैव सोप्य नन्निर्गतस्ततः
मृदु हस्ततलेनैव यावत्खनति वै मुनिः
सनारुणाथ तल्लिंगं तेन तत्र समर्चितम्
अमृतेश्वरनामेदं लिंगमानंदकानने
अमृतेशं समभ्यर्च्य जीवत्पुत्रः स वै मुनिः
तदाप्रभृति तल्लिंगममृतेशं मुनीश्वर
अमृतेश्वर संस्पर्शान्मृता जीवंति तत्क्षणात्