अथ तैः प्रमथैर्विष्णोरनुगा गदिता रणे
ततस्तार्क्ष्यरथः क्रुद्धस्त्वेकैकं रणमूर्धनि
ते भिन्नवक्षसः सर्वे गणा रुधिरवर्षिणः
क्षरंत इव मातंगाः स्रवंत इव पर्वताः
ततः प्रहस्य गणपोऽब्रवीद्वै कुंठनायकम्
परं युध्यसि दैत्येंद्रैर्दानवेंद्रैर्न पार्षदैः
गदिनाऽथ गदा तूर्णं दैत्येंद्रगिरिरेणुकृत्
तदंगसंगमासाद्य विदद्रे शतधा तया
जघान वासुदेवोपि तरसाऽज्ञातवेदनम् 4.2.89.
आताड्य सव्यदोर्दंडे गदां भूमावपातयत्
स च चक्रं समागच्छद्दृष्ट्वा सस्मार शंकरम् कंठमासाद्यवीरस्य सम्यग्जातं सुदर्शनम्
तेन चक्रेण शुशुभे नितरां स गणेश्वरः
ततः सुदर्शनं दृष्ट्वा तत्कंठाभरणं हरिः
सनंदकं करं तस्य प्रोद्यतं मधुविद्विषः
अभ्यधावच्च वेगेन गृहीत्वा शूलमुज्ज्वलम्
वारितो गणराजः स मा कार्षीः साहसं त्विति
प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिंदकम् स कथं सेश्वरं कर्म न कुर्याद्दक्षतांदधत्
येनास्येन पवित्रेण भवता निंदितः शिवः
इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ।। 4.2.89.
ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे
वेणीदंडाश्च कासांचित्तेनच्छिन्ना महारुषा
नासापुटांस्तथान्यासां पाटयामास पार्षदः
ये ये निनिंदुर्देवेशं ये ये च शुश्रुवुस्तदा
केचिदुल्लंबिता यूपे पाशयित्वा दृढं गले
द्विजराजश्च धर्मश्च भृगुमारीचिमुख्यकाः
एते जामातरस्तस्य यतो दक्षस्य दुर्धियः
तानि कुंडानि ते यूपास्ते स्तंभाः स च मंडपः
ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः
स्तोकेनैव हि कालेन यथर्धिः परवंचनात् 4.2.89.
विधीरितमिति श्रुत्वा स्मित्वा देवो महेश्वरः 4.2.89.