ददर्श शार्ङ्गिणं चाग्रे स्वगणैश्च परिष्टुतम्
चक्रिभिर्गदिभिर्जुष्टं खड्गिभिश्चापि शार्ङ्गिभिः
त्वं तु यज्ञपुमानत्र महायज्ञप्रवर्तकः
किं वा दक्षं समानीय देहि युध्यस्व वा मया
प्रायशः शंभुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः
तुष्टेन शंभुना दत्तं तुभ्यं चक्रं सुदर्शनम्
इत्याकर्ण्य वचस्तस्य वीरभद्रस्य चोर्जितम्
त्वं शंभोः सुत देशीयो गणानां प्रवरोस्यहो
योसि सोस्यहमप्यत्र दक्षरक्षणदक्षधीः 4.2.89.
इत्युक्तो वीरभद्रः स तेन वै शार्ङ्गधन्वना
अथ तैः प्रमथैर्विष्णोरनुगा गदिता रणे
ततस्तार्क्ष्यरथः क्रुद्धस्त्वेकैकं रणमूर्धनि
ते भिन्नवक्षसः सर्वे गणा रुधिरवर्षिणः
क्षरंत इव मातंगाः स्रवंत इव पर्वताः
ततः प्रहस्य गणपोऽब्रवीद्वै कुंठनायकम्
परं युध्यसि दैत्येंद्रैर्दानवेंद्रैर्न पार्षदैः
गदिनाऽथ गदा तूर्णं दैत्येंद्रगिरिरेणुकृत्
तदंगसंगमासाद्य विदद्रे शतधा तया
जघान वासुदेवोपि तरसाऽज्ञातवेदनम् 4.2.89.
आताड्य सव्यदोर्दंडे गदां भूमावपातयत्
स च चक्रं समागच्छद्दृष्ट्वा सस्मार शंकरम् कंठमासाद्यवीरस्य सम्यग्जातं सुदर्शनम्
तेन चक्रेण शुशुभे नितरां स गणेश्वरः
ततः सुदर्शनं दृष्ट्वा तत्कंठाभरणं हरिः
सनंदकं करं तस्य प्रोद्यतं मधुविद्विषः
अभ्यधावच्च वेगेन गृहीत्वा शूलमुज्ज्वलम्
वारितो गणराजः स मा कार्षीः साहसं त्विति
प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिंदकम् स कथं सेश्वरं कर्म न कुर्याद्दक्षतांदधत्
येनास्येन पवित्रेण भवता निंदितः शिवः
इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ।। 4.2.89.
ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे