अहो वराकः संसारः क्व भविष्यत्यनीश्वरः
यतः प्रजापतिर्दक्षो न त्वामाहूतवान्क्रतौ
तव रीढां करिष्यंति किमैश्वर्येण रीढिनाम् अथैश्वर्येण संपन्नाः प्रतिष्ठाभाजनं किमु
महीयसायुषा तेषां वसुभिर्भूरिभिश्च किम्
अचेतनाश्च सावज्ञा जीवंतोपि न कीर्तये
या त्वद्विनिंदाश्रवणात्तृणीचक्रे स्वजीवितम्
सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम्
रुद्रश्चातीवरुद्रोभूद्बहुकोपाग्निदीपितः
प्रत्यक्षः प्रतिमाकारः कालमृत्युप्रकंपनः
आज्ञां देहि पितः किं ते करवै दास्यमुत्तमम् 4.2.89.
पिबामि चार्णवान्सप्ताप्येकेन चुलुकेन वै
त्वदाज्ञया नयामीश विनिमय्य स्वहेलया
अपि वैकुंठनाथश्चेत्तत्साहाय्यं करिष्यति
दनुजा दितिजाः के वै वरा कारणदुर्बलाः
कालं बध्नामि वा संख्ये मृत्योर्वा मृत्युमर्थये
त्वद्बलेन महेशान न कोपि स्थैर्यमेष्यति
कदलीदलवद्वाताद्वेपते सरसातलम्
किं बहूक्तेन देह्याज्ञां ममासाध्यं न किंचन
इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत
महावीरोसि रे भद्र मम सर्वगणेष्विह 4.2.89.
कुरु मे सत्वरं कार्यं दक्षयज्ञं क्षयं नय
ते त्वयाप्यवमंतव्या व्रज पुत्र शुभोदय
हरं प्रदक्षिणीकृत्य जग्मिवानतिरंहसा
शतकोटिमितानुग्रान्गणानन्न्यानवासृजत्
केचित्तदनुगा जाताः केचित्तत्पार्श्वगा ययुः
शृंगाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै
उत्पाट्य महतो वृक्षान्केचित्प्राप्ता मखांगणम्
मंडपं ध्वंसयामासुः केचित्क्रोधोद्धुरागणाः अभक्षयन्हवींष्यन्ये पृषदाज्यं पपुः परे
दध्वंसुरन्नराशींश्च केचित्पर्वतसन्निभान्
केचित्पक्वान्नपुष्टांगा यज्ञपात्राण्यचूर्णयन् 4.2.89.४० व्यभजञ्छकटान्केचित्पशून्केचिदजीगिलन्