पदेनैकेन भूलोकं द्वितीयेनांतरिक्षकम्
एकेन मानसं पापं द्वितीयेन तु वाचिकम्
पातकानि च सर्वाणि पदेनैकेन मार्जयेत्
पर्णशाला महर्षीणां सिद्धानां च सहस्रशः 1.3.1.9.
अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः
अग्निस्तंभमयं रूपमरुणादिरिति श्रुतम्
अष्टमूर्तिमयं लिंगमिदं यैस्तैजसं भृशम्
न पुनः संभवस्तस्य यः करोति प्रदक्षिणाम्
अस्य पादरजःस्पर्शात्पूयते सकला मही
नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृतांजलिः
आसन्नप्रसवा नारी यथा गच्छेदनाकुलम्
स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः
मनूनां चरतामग्रे देवानां च सहस्रशः
संघट्टमतिसंमर्दं मार्गरोधं विचिंतयन् 1.3.1.9.
अथवा शिवनामानि संकीर्त्य वरगीतिभिः
माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात्
दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम्
कृते त्वग्निमयं लिंगं त्रेतायां मणिपर्वतम्
अथवा स्फाटिकं रूपमरुणं तु स्वयंप्रभम्
अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम्
ध्यात्वा प्रदक्षिणं कर्तुरभिगम्योऽहमंजसा
रूपमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे
कुर्वतां चरणं वोढुमरुणाद्रिप्रदक्षिणाम्
कुर्वतां भुवि मर्त्त्यानामरुणाद्रिप्रदक्षिणाम् 1.3.1.9.
सेवंते ते गणाकीर्णा विमानशतकोटयः
पाविता महती वीथी दृष्टा शिवपदप्रदा
प्राप्तो वज्रशरीरत्वं न धृष्येत महीतले
अदृश्याः संचरंत्यत्र पश्यंते मम संनिधिम्
दृष्ट्वा हर्षसमायुक्ता मर्त्त्येभ्यो ददते वरम्
प्रत्यहं मार्गमासीनाः प्रत्येकं कोटितां गताः