न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम्
न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते
कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्संपत्ति रीदृशी
साक्षाच्च सर्वे मंत्रा वै साक्षाद्यज्ञपुमानसौ साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकांडवित्
अयं पूषा भगस्त्वेष इयं देवी सरस्वती
त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया
स्वयमेव हि कुर्वीत धर्मकार्यं प्रयत्नतः 4.2.87.
सप्तविंशतिभिः सार्धं पत्नीभिस्तव कार्यकृत्
दीक्षितो राजसूयस्य दत्तत्रैलोक्यदक्षिणः त्रयोदशमिताभिश्च भार्याभिस्तव कार्यकृत्
हविः कामदुघा सूते कल्पवृक्षः समित्कुशान्
विश्वकर्माप्यलंकारान्कुरुतेभ्यागतर्त्विजाम्
स्वयंलक्ष्मीरलंकुर्याद्यावै चात्र सुवासिनीः
सर्वे सुखाय मे दक्ष वीक्षमाणस्य सर्वतः
जीवहीनो यथा देहो भूषितोपि न शोभते
इत्थं दधीचिवचनं श्रुत्वा दक्षः प्रजापतिः
पूर्वस्तुत्याति संहृष्टो दृष्टो योसौ दधीचिना
प्रत्युवाचाथ तं विप्रं वेपमानांगयष्टिकः 4.2.87.
दीक्षामहमहो प्राप्तः कर्तुं नायाति किंचन
भवान्केन समाहूतो यदत्रागान्महाजडः
सर्वमंगलमांगल्यो यत्र श्रीमानयं हरिः
यत्र वज्रधरः शक्रः शतयज्ञैकदीक्षितः
तं त्वंचोपमिमीषेमुं श्मशानेन महामखम्
श्रीदोस्ति यत्र श्रीदाता साक्षाद्यत्राशुशुक्षणिः
देवाचार्यः स्वयं यत्र क्रतोराचार्यतागतः
यत्रार्त्विज्यं भजंतेऽमी वसिष्ठप्रमुखर्षयः
निशम्येति मुनिः प्राह दधीचिर्ज्ञानिनां वरः
तथापि शांभवी शक्तिर्वेदे विष्णुः प्रपठ्यते 4.2.87.
दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः
पुनराराध्य भूतेशं प्रापैकाममरावतीम्
बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा