अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर
प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः अविमुंचन्निहावासं कृतवानहमद्रिजे
प्रदक्षिणस्य माहात्म्यं ब्रूहि मे शोणभूभृतः
कस्मिन्काले कथं कार्यं कैर्वा पूर्वं प्रदक्षिणम्
श्रूयतां देवि माहात्म्यमादिशन्मे महेश्वरः ।। 1.3.1.9.
परितो मां सुराः सर्वे वर्तंते मुनिभिः सह
यानि कानि च पापानि जन्मांतरकृतानि च
अश्वमेधसहस्राणि वाजपेयायुतानि च
अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः
समस्त तीर्थाभिगमेषु पुण्यं समस्तयज्ञागमधर्मजातम्
पदेनैकेन भूलोकं द्वितीयेनांतरिक्षकम्
एकेन मानसं पापं द्वितीयेन तु वाचिकम्
पातकानि च सर्वाणि पदेनैकेन मार्जयेत्
पर्णशाला महर्षीणां सिद्धानां च सहस्रशः 1.3.1.9.
अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः
अग्निस्तंभमयं रूपमरुणादिरिति श्रुतम्
अष्टमूर्तिमयं लिंगमिदं यैस्तैजसं भृशम्
न पुनः संभवस्तस्य यः करोति प्रदक्षिणाम्
अस्य पादरजःस्पर्शात्पूयते सकला मही
नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृतांजलिः
आसन्नप्रसवा नारी यथा गच्छेदनाकुलम्
स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः
मनूनां चरतामग्रे देवानां च सहस्रशः
संघट्टमतिसंमर्दं मार्गरोधं विचिंतयन् 1.3.1.9.
अथवा शिवनामानि संकीर्त्य वरगीतिभिः
माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात्
दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम्
कृते त्वग्निमयं लिंगं त्रेतायां मणिपर्वतम्
अथवा स्फाटिकं रूपमरुणं तु स्वयंप्रभम्
अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम्