आनंदमेवजनयेदपि पापजुषामिह
जीवन्मुक्तइवासं हि क्षेत्रतत्त्वश्रुतेरहम् यान्युक्तानि समाचक्ष्व तत्प्रभावमशेषतः
यो दक्षो गर्हयामास मध्ये देवसभं विभुम्
इति श्रुत्वा शिखिरथः कुंभयोनेरुदीरितम्
आकर्णय मुने वच्मि कथां कल्मषहारिणीम्
छागवक्त्रो विरूपास्यो दधीचि परिधिक्कृतः
एकदा देवदेवस्य सेवार्थं शशिमौलिनः
इंद्रादयो लोकपाला विश्वेदेवा मरुद्गणाः 4.2.87.
ऋषयोऽप्सरसोयक्षा गंधर्वाः सिद्धचारणाः
स्तुतश्च नाना स्तुतिभिः शंभुनापि कृतादराः
अथ तेषूपविष्टेषु शंभुना विष्टरश्रवाः
श्रीवत्सलांछन हरे दैत्यवंशदवानल
दितिजान्दनुजान्दुष्टान्कच्चिच्छासि रणांगणे
बाधया रहिता गावः कच्चित्संति महीतले
विधियज्ञाः प्रवर्तंते पृथिव्यां बहुदक्षिणाः
निष्प्रत्यूहं पठंत्येव सांगान्वेदान्द्विजोत्तमाः
स्वेषु स्वेषु च धर्मेषु कच्चिद्वर्णाश्रमास्तथा
धूर्जटिः परिपृछ्येति हृष्टं वैकुंठनायकम्। ब्रह्माणं चापि पप्रच्छ ब्राह्मं तेजः समेधते ।। 4.2.87.
सत्यमस्खलितं कच्चिदस्ति त्रैलोक्यमंडपे
इंद्रादयः सुराः कच्चित्स्वेषु स्वेषु पुरेष्वहो
प्रत्येकं परिपृच्छयेशः सर्वानित्थं कृतादरान्
विससर्जाथ तान्सर्वान्देवः सौधं समाविशत्
मध्ये मार्गं स चिंतोभूद्दक्षः सत्याः पिता तदा
अतीव क्षुब्धचित्तोभून्मंदराघाततोऽब्धिवत्
अतीवगर्वितो जातः सती मे प्राप्य कन्यकाम्
किं वंश्यस्त्वेष किं गोत्रः किं देशीयः किमात्मकः
न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम्
असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः 4.2.87.
न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम्
क्षतात्संत्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये