ततो वै कलितीर्थं च कलशेश्वरसन्निधौ
चंद्रतीर्थं च तत्रैव चंद्रेश्वरसमीपतः
तदग्रे वीरतीर्थं च वीरेश्वर समीपतः
विघ्नेशतीर्थं च ततः सर्वविघ्नविघातकृत्
हरिश्चंद्रस्य राजर्षस्ततस्तीर्थमनुत्तमम्
हरिश्चंद्रस्य तीर्थे तु यच्छ्रेयः समुपार्जितम् 4.2.84.
ततः पर्वततीर्थं च पर्वतेश समीपतः
कंबलाश्वतरं तीर्थं तत्र सर्वविषापहम्
ततः सारस्वतं तीर्थं सर्वविद्योपपादकम्
उमातीर्थं तु तत्रैव सर्वशक्तिसमन्वितम्
ततस्त्रिलोकी विख्यातं त्रिलोक्युद्धरणक्षमम्
चक्रपुष्करिणीतीर्थं तदादौ विष्णुना कृतम्
स्वर्गौकसस्त्रिसंध्यं वै जपंति मणिकर्णिकाम्
यैः श्रुता यैः स्मृता वीर यैर्दृष्टा मणिकर्णिका
त्रिलोके ये जपंतीह मानवा मणिकर्णिकाम्
इष्टं तेन महायज्ञैः सहस्रशतदक्षिणैः 4.2.84.
महादानानि दत्तानि तेन वै पुण्यकर्मणा
मणिकर्ण्यंबुभिर्येन तर्पिताः प्रपितामहाः
मणिकर्णीजलं येन संपीतं शुद्धबुद्धिना
ते स्नाताः सर्वतीर्थेषु महापर्वसुभूरिशः
तैः सुराः पूजिताः सर्वे ब्रह्मविष्णुमुखा मखैः
अहं तेनोमया सार्धं दीक्षां संप्राप्य शांभवीम्
तपांसि तेन तप्तानि शीर्णपर्णादिना चिरम्
दत्त्वा दानानि भूरीणि मखानिष्ट्वा तु भूरिशः
विपुलेत्र महीपृष्ठे पंचक्रोश्यां मनोहरा
दानानां च व्रतानां च क्रतूनां तपसामपि 4.2.84.
एतेषामपि तीर्थानां चतुर्णामपि सत्तम 4.2.84.
इति वीरेश्वराख्यानं तीर्थाख्यानप्रसंगतः
प्रादुर्भावं निशम्यैषां लिंगानां मुक्तिदायिनाम्
नितरां परितृप्तोस्मि सुधां पीत्वेव निर्जरः