तद्दक्षिणे महापुण्यं कर्णादित्याख्यमुत्तमम्
ततो भैरवतीर्थं च महाघौघक्षयप्रदम्
भौमाष्टम्यां तत्र नरः स्नात्वा संतर्पयेत्पितॄन्
तीर्थं खर्वनृसिंहाख्यं तीर्थाद्भरवतः पुरः
मृकंडस्य मुनेस्तीर्थं तद्याम्यामतिनिर्मलम
ततः पंचनदाख्यं वै सर्वतीर्थनिषेवितम् 4.2.84.
ब्रह्मांडोदरवर्तीनि यानि तीर्थानि सर्वतः
सर्वदा यत्र सर्वाणि दशम्यादिदिनत्रयम्
भूरिशः सर्वतीर्थानि मध्य काशि पदेपदे
अप्येकं कार्तिकस्याहस्तत्र वै सफलीकृतम्
सर्वाण्यपि च तीर्थानि युगपत्तुलितान्यपि
स्नात्वा पांचनदे तीर्थे दृष्ट्वा वै बिंदुमाधवम्
ततो ज्ञानहदं तीर्थं जडानामपि जाड्यहृत्
तत्र ज्ञानह्रदे स्नात्वा दृष्ट्वा ज्ञानेश्वरं नरः
ततोस्ति मंगलं तीर्थं सर्वामंगलनाशनम्
अमंगलानि नश्येयुर्भवेयुर्मंगलानि च ।। 4.2.84.
मयूखमालिनस्तीर्थं तदग्रे मलनाशनम्
मखतीर्थं तु तत्रैव मखैश्वर समीपतः
तत्पार्श्वे बिंदुतीर्थं च परमज्ञानकारणम्
पिप्पलादस्य च मुनेस्तीर्थं तद्याम्यदिक्स्थितम्
पिप्पलं तत्र सेवित्वा अश्वत्थ इति मंत्रतः
ततस्ताम्रवराहाख्यं तीर्थं चैवातिपावनम्
तदग्रे कालगंगा च कलिकल्मषनाशिनी
इंद्रद्युम्नं महातीर्थमिंद्रद्युम्नेश्वराग्रतः
ततस्तु रामतीर्थं च वीररामेश्वराग्रतः
तत ऐक्ष्वाकवं तीर्थं सर्वाघौघविनाशनम् 4.2.84.
मरुत्ततीर्थं तत्प्रांते मरुत्तेश्वरसन्निधो
मैत्रावरुणतीर्थं च ततः पातकनाशनम्
ततोग्नितीर्थविमलमग्नीश पुरतो महत्
अंगारतीर्थं तत्रैव अंगारेश्वरसन्निधौ