लक्ष्मीनृसिंहतीर्थं च गोपीगोविंद दक्षिणे
तद्दक्षिणायां काष्ठायां शेषतीर्थमनुत्तमम्
शंखमाधवतीर्थं च तद्याम्यां दिशि चोत्तमम्
ततोपि पावनतरं तीर्थं तत्क्षणसिद्धिदम्
तत्रोद्दालकतीर्थं च सर्वाघौघ विनाशनम्
ततः सांख्याख्य तीर्थं च सांख्येश्वर समीपतः 4.2.84.
स्वर्लोकाद्यत्र संलीनः स्वयं देव उमापतिः
तत्र स्नानेन दानेन श्रद्धया द्विजभोजनैः
महिषासुरतीर्थं च तत्समीपेति पावनम्
तत्तीर्थसेवकोद्यापि नारिभिः परिभूयते
बाणतीर्थं च तस्यारात्तत्सहस्रभुजप्रदम्
गोप्रतारेश्वरं नाम तदग्रे तीर्थमुत्तमम्
तीर्थं हिरण्यगर्भाख्यं तद्याम्ये सर्वपापहृत्
ततः प्रणवतीर्थं च सर्वतीर्थोत्तमोत्तमम्
ततः पिशंगिला तीर्थं दर्शनादपि पापहृत्
स्नात्वा पिशंगिला तीर्थे दत्त्वा दानं च किंचन 4.2.84.
यो वै पिशंगिला तीर्थे स्नात्वा मामर्चयिष्यति
ततस्त्रैविष्टपीदृष्टि निर्मलीकृत पुष्कलम्
महतीं श्रियमाप्नोति मानवोतीव निश्चलाम्
ततो नागेश्वरं तीर्थं महाघपरिशोधनम्
तद्दक्षिणे महापुण्यं कर्णादित्याख्यमुत्तमम्
ततो भैरवतीर्थं च महाघौघक्षयप्रदम्
भौमाष्टम्यां तत्र नरः स्नात्वा संतर्पयेत्पितॄन्
तीर्थं खर्वनृसिंहाख्यं तीर्थाद्भरवतः पुरः
मृकंडस्य मुनेस्तीर्थं तद्याम्यामतिनिर्मलम
ततः पंचनदाख्यं वै सर्वतीर्थनिषेवितम् 4.2.84.
ब्रह्मांडोदरवर्तीनि यानि तीर्थानि सर्वतः
सर्वदा यत्र सर्वाणि दशम्यादिदिनत्रयम्
भूरिशः सर्वतीर्थानि मध्य काशि पदेपदे
अप्येकं कार्तिकस्याहस्तत्र वै सफलीकृतम्