ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम्
ततो नृसिंहतीर्थं च महाभयनिवारणम्
ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् 4.2.83.१ ०
तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् 4.2.83.
अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ 4.2.83.
इति श्रुत्वा महेशानो महीप तनयोदितम्
आकर्णय क्षोणिसुर यथा स्थाणुरचीकरत्
संगमे तत्र निष्णातः संगमेशं समर्च्य च
तत्र पादोदकं तीर्थं यत्र देवेन शार्ङ्गिणा
विप्णुपादोदके तीर्थे वारिकार्यं करोति यः
कृतपादोदक स्नानः कृतकेशवपूजनः
काश्यां सा भूमिरुद्दिष्टा श्वेतद्वीप इति द्विजैः
ततः पादोदकात्तीर्थात्तीर्थं क्षीराब्धिसंज्ञकम्
क्षीरोदाद्दक्षिणेभागे तीर्थं शंखाख्यनुत्तमम्
अर्वाक्च शंखतीर्थाद्वै चक्रतीर्थमनुत्तमम्
गदातीर्थं तदग्रे तु संसारगदनाशनम् 4.2.84.
पद्माकृत्पद्मतीर्थं च तदग्रे पितृतृप्तिकृत्
ततस्तीर्थं महालक्ष्म्या महापुण्यफलप्रदम्
ततो गारुत्मतं तीर्थं संसारगरनाशनम्
ततो नारदतीर्थं च ब्रह्मविद्यैककारणम्
प्रह्लादतीर्थं तद्याम्ये महाभक्तिफलप्रदम्
अंबरीषं ततस्तीर्थं महापातकनाशनम्
आदित्यकेशवं नाम तदग्रे तीर्थमुत्तमम्
दत्तात्रेयस्य तत्रास्ति तीर्थं त्रैलोक्यपावनम्
तदग्रे भार्गवं तीर्थं महाज्ञानसमर्पकम्
ततो वामनतीर्थं च विष्णुसान्निध्यहेतुकम् 4.2.84.
नरनारायणाख्यं हि ततस्तीर्थं शुभप्रदम्
यज्ञवाराहतीर्थं च ततो दक्षिणतः शुभम्
विदारनारसिंहाख्यं तीर्थं तत्रास्ति पावनम्
गोपीगोविंदतीर्थं च ततो वैष्णवलोकदम्