दिवोदासस्य वै तीर्थं तत्र राज्ञोऽतिमेधसः
ततोपि हि महातीर्थं सर्वपापप्रणाशनम्
स्नात्वा भागीरथी तीर्थे कृत्वा श्राद्धं विधानवित् 4.2.83.
हरपापं च भो वीर तीर्थं भागीरथीतटे
यो निष्पापेश्वरं लिंगं तत्र पश्यति मानवः
दशाश्वमेधतीर्थं च ततोपि प्रवरं मतम् ।। दशानामश्वमेधानां यत्र स्नात्वा फलं लभेत्
ततोपि शुभदं वीर बंदीतीर्थं प्रचक्षते
हिरण्याक्षेण दैत्येन बहुशो देवताः पुरा
ततो विशृंखलीभूतैर्वंदिता यज्जगज्जनिः
बंदीतीर्थस्तु तत्रैव महानिगडखंडनम्
बंदीतीर्थं महाश्रेष्ठं काशिपुर्यां विशांपते
ततोपि हि श्रेष्ठतरं प्रयागमिति विश्रुतम्
क्षोणीवराहतीर्थं च ततोपि शुभदं परम् 4.2.83.
ततः कालेश्वरं तीर्थं वीरश्रेष्ठतरं परम्
अशोकतीर्थं तत्रैव ततोप्यतितरां शुभम्
ततोति निर्मलतरं शुक्रतीर्थं नृपांगज
ततोऽपि पुण्यदं राजन्भवानीतीर्थमुत्तमम्
प्रभासतीर्थं विख्यातं ततोपि शुभदं नृणाम्
ततो गरुडतीर्थं च संसारविषनाशनम्
ब्रह्मतीर्थं ततः पुण्यं वीरब्रह्मेश्वरात्पुरः
ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम्
ततो नृसिंहतीर्थं च महाभयनिवारणम्
ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् 4.2.83.१ ०
तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् 4.2.83.
अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ 4.2.83.
इति श्रुत्वा महेशानो महीप तनयोदितम्
आकर्णय क्षोणिसुर यथा स्थाणुरचीकरत्
संगमे तत्र निष्णातः संगमेशं समर्च्य च
तत्र पादोदकं तीर्थं यत्र देवेन शार्ङ्गिणा
विप्णुपादोदके तीर्थे वारिकार्यं करोति यः