शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः
तदत्र भवता स्थेयं भवतापहृता सदा
अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् 4.2.83.
दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः
सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे
एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना
विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज
काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो
दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः
यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति
जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम्
भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि
पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः 4.2.83.
यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत्
यत्र वै स्नानमात्रेण गजदानफलं लभेत्
कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः
दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम्
यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे
सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत्
सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम्
पापं सुवर्णचौर्यादि यत्र स्नात्वा क्षयं व्रजेत्
हंस स्वरूपी यत्राहं नयामि ब्रह्मदेहिनः
ततस्त्रिभुवनाख्यस्य केशवस्याति पुण्यदम् 4.2.83.
गोव्याघ्रे श्वर तीर्थं च ततोप्यधिकमेव हि
ततोपि हि वरं वीर तीर्थं मांधातुसंज्ञितम्
ततोपि मुचुकुंदाख्यं तीर्थं चातीव पुण्यदम्
पृथु तीर्थं ततोप्युच्चैः श्रेयसां साधनं परम्
ततः परशुरामस्य तीर्थं चातीव सिद्धिदम् ।। यत्र क्षत्रवधात्पापाज्जामदग्न्यो विमुक्तवान्
अद्यापि क्षत्रवधजं पापं तत्र प्रणश्यति
ततोपि श्रेयसां कर्तृ तीर्थं कृष्णाग्रजस्य हि