सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे
तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः
एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि 4.2.83.
संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः
तपसातीव तीव्रेण निश्चलेंद्रियचेतसः ।। तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः
आविर्बभूव पुरतो लिंगरूपेण शंकरः
सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात
प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम्
ततः प्रसन्नो भगवान्देवदेवो महेश्वरः
त्वयेदं बालवपुषा वशीकृतं मनो मम
शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः
तदत्र भवता स्थेयं भवतापहृता सदा
अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् 4.2.83.
दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः
सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे
एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना
विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज
काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो
दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः
यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति
जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम्
भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि
पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः 4.2.83.
यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत्
यत्र वै स्नानमात्रेण गजदानफलं लभेत्
कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः
दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम्
यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे
सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत्
सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम्