इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह
इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा
तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता 4.2.83.
जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात्
मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया
हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता
सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता
धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना
तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद
राज्ञ्या पत्युः प्रियेषिण्या मंत्रिविज्ञप्तिनुन्नया
विकटायाः पुरः स्थाप्य गृहं धात्रेयिका गता
उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः 4.2.83.
योगिन्यो विकटावाक्यात्खेचर्यस्ताः क्षणेन तम्
प्रणम्य योगिनीवृंदं तं शिशुं सूर्यवर्चसम्
ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ।। कौमारी चापि माहेंद्री चामुंडा चैव चंडिका
दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः
मातृभिश्चेति पुष्टः स यदा किंचिन्न वक्ति च
राज्ययोग्यो भवत्येष महालक्षणलक्षितः
पंचमुद्रा महादेवी तिष्ठते यत्र काम्यदा । यस्याः संसेवनान्नृणां निर्वाणश्रीरदूरतः
सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे
तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः
एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि 4.2.83.
संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः
तपसातीव तीव्रेण निश्चलेंद्रियचेतसः ।। तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः
आविर्बभूव पुरतो लिंगरूपेण शंकरः
सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात
प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम्
ततः प्रसन्नो भगवान्देवदेवो महेश्वरः
त्वयेदं बालवपुषा वशीकृतं मनो मम