तस्मिन्मंत्रयमाणे हि द्वारे तिष्ठति लक्ष्मणे
आगत्य लक्ष्मणं शीघ्रं प्रीत्योवाच क्षुधाऽऽकुलः
कार्यार्थिनमिदं वाक्यं नान्यथा कर्तुमर्हसि
मुनिं निवेदयामास रामाग्रे दर्शनार्थिनम्
रामोऽपि कालमामंत्र्य प्रस्थाप्य च बहिर्ययौ
दुर्वाससं मुनिवरं प्रस्थाप्य स्वयमादरात्
लक्ष्मणोऽपि तदा वीरः कुर्वन्नवितथं वचः
तत्र गत्वाथ च स्नात्वा ध्यानमास्थाय सत्वरम्
ततः प्रादुरभूत्तत्र सहस्रफणमण्डितः सुरलोकात्सुरेन्द्रोऽपि समागादमरैः सह ।। 2.8.2.
ततः शेषात्मतां यातं लक्ष्मणं सत्यसंगरम्
इन्द्र उवाच लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोह स्वपदं स्वकम्
वैष्णवं परमं स्थानं प्राप्नुहि त्वं सनातनम्
सहस्रधा क्षितिं भित्त्वा सहस्रफणमण्डलैः
फणसाहस्रमणिभिर्दग्धाः शेषस्य सुव्रत ख्यातं सहस्रधारेति भविष्यति न संशयः
एतत्क्षेत्रप्रमाणं तु धनुषां पञ्चविंशतिः सर्वपापविशुद्धात्मा विष्णुलोकं व्रजेन्नरः
अत्र स्नातो नरो धीमाञ्छेषं संपूज्य चाव्ययम्
तस्मादत्र प्रकर्तव्यं स्नानं विधिपुरःसरम्
स्वर्णं चान्नं च वासांसि देयानि श्रद्धयान्वितैः
तस्मादेतन्महातीर्थं सर्वकामफलप्रदम् 2.8.2.
श्रावणे शुद्धपक्षस्य या तिथिः पञ्चमी भवेत्
उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम्
सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम्
वैशाखमासे ये स्नानं कुर्वंत्यत्र समाहिताः
तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः
विष्णुमुद्दिश्य यो दद्यात्सालंकारां पयस्विनीम्
तस्य वासो भवेन्नित्य विष्णुलोके सनातने
अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः
लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः
सर्वाण्यपि च संगत्य स्थास्यंत्यत्र न संशयः सर्वतीर्थावगाहस्य भविष्यति फलं महत् ।। 2.8.2.
शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम्