इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः
श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम्
धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः
राज्ञ्युवाच अवधेहि धरानाथ कथयामि यथातथम्
पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना
चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः
विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित्
मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि
अविच्छिन्नं नवीनं च रजनीरागरंजितम्
तस्योपरि शुभं पद्मं रविरश्मिविकासितम्
विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः
सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः
धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे 4.2.83.
हस्तमात्रमिते कुंडे जातवेदस इत्यृचा
सहस्रकमलानां च स्मेराणां स्वयमेव हि
दद्यादाचार्यवर्याय सालंकारां सलक्षणाम्
प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः
सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत्
नमो विश्वविधानज्ञे विधे विविधकारिणि
सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम्
इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह
इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा
तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता 4.2.83.
जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात्
मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया
हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता
सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता
धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना
तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद