यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते
गंगाद्वारे कुरुक्षेत्रे गंगासागरसंगमे
नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ
मानसे पुष्करे चैव द्वारिके सागरे तथा
कार्तिक्यां सूकरक्षेत्रे चैत्र्यां गौरीमहाह्रदे
तीर्थद्वयं प्रतीक्षंते सिस्नासून्पितरो नरान् 4.2.81.
पितामहसमीपे वा धर्मेशस्याग्रतोथ वा
धर्मकूपे नरः स्नात्वा परितर्प्य पितामहान्
यथा गयायां तृप्ताः स्युः पिंडदाने पितामहाः
ते धन्याः पितृभक्तास्ते प्रीणितास्तैः पितामहाः
तत्तीर्थस्य प्रभावेण निष्पापोभूत्क्षणेन च
अपारो महिमा तस्य धर्मतीर्थस्य कुंभज
तत्रापि काकिणी मात्रं यच्छेत्पितृमुदे नरः
तत्र यो भोजयेद्विप्रान्यतिनोथ तपस्विनः
प्राप्यामरावतीं शक्रस्ततो दिविषदां पुरः
आगत्य पुनरप्यत्र शंभोरानंदकानने 4.2.81.
तारकेशात्पश्चिमत इंद्रेश्वरमितीरितम्
तद्दक्षिणे शचीशश्च स्वयं शच्या प्रतिष्ठितः
तत्समीपेस्ति रंभेशो बहुसौख्यसमृद्धिदः
तदर्चनात्प्रसीदंति लोकपालाः समृद्धिदाः तद्दर्शनेन धैर्यं स्याद्राज्ये राजकुलादिषु
धर्मेशाद्दक्षिणे पूज्यं तत्त्वेशाख्यं परं नरैः
धर्मेशात्पूर्वदिग्भागे वैराग्येशं समर्चयेत्
ज्ञानेश्वरं तथैशान्यां ज्ञानदं सर्वदेहिनाम्
तद्दर्शनाद्भवेन्नृणामैश्वर्यं मनसेप्सितम्
एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम्
यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति 4.2.81.
दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः
हरेत्पुरंध्रीः प्रसभं पौराणां काममोहितः
अदंड्यान्दंडयांचक्रे दंड्येष्वासीत्पराङमुखः
विवासिताः स्वविषयात्तेन सन्मतिदायिनः