पालयंतु सदान्ये च युक्ताः कापालिका अपि
अव्याहताज्ञमारक्ष्यमिदं स्थानं महीभृताम्
अत्र भक्ता वितन्वन्तु शिवकार्यविनिश्चयम्
यत्तदक्षय्यफलदमारक्ष्यं शिवसेवकैः 1.3.1.8.
सर्वं संपादयिष्यामि तेषां चित्तानुकूलकम्
आगमोक्ता च पूजेयं मानुषी निर्मिता यतः
संकल्पितं भवेत्कर्म प्रीतिकृन्मम सेवकैः
विधायाभ्यर्चनाभेदाँल्लोकरक्षाकृते मुने
सत्राणि विविधान्यत्र कर्तव्यानि सहस्रशः
अव्युच्छिन्नप्रदीपस्य दातारो मम सन्निधौ
जलजं तरुजं पुष्पं कक्षजं च लतोद्भवम्
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः
तत्तत्समर्द्धितं रम्यं संभवं ददतेऽत्र मे
शिवभक्ता भृशं पूर्णा भविष्यंति न संशयः ।। 1.3.1.8.
इति शंभुमुखोत्थितं वचः समुपश्रुत्य विधूतकल्मषः
विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः
अक्षिपेयामृतेशानः स्त्रीपुंभावप्रदायकः
मुखरांघ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः
ज्ञानसंबंधनाथश्च श्रीहलाहलसुंदकः
व्यत्यस्तनृत्यद्धृजधृक्सकांतिर्नटनेश्वरः
जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरांतकः
बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः
स्मरांतकोंऽधकरिपुः सिद्धराजो दिगंबरः 1.3.1.9.
श्रीपतिः शंकरः स्रष्टा सर्वविद्येश्वरोऽनघः
अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः
सच्चिदानंदरूपश्च सर्वात्मा जीवधारकः
ज्ञानप्रदो मुक्तिदश्च भक्तवांछितदायकः
शूली पशुपतिः शंभुः स्वयंभुर्गिरिशो मृडः