तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ।। 4.2.72.
काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम्
पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः
भारद्वाजस्य तनयो दमनो नाम नामतः
संसारदुःखबहुलं जीवितं चापि चंचलम्
कांचिद्दिशं समालंब्य निर्वेदं परमं गतः
प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः
अध्युवास स तावंति संयतेंद्रियमानसः
मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः
रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम्
दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह
304b विभूतिभूषिततनून्कृतलिंगसमर्चनान् 4.2.74.
स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान्
प्रबद्धहस्तयुगलः प्रणमतरकंधरः
वार्धकेन समाक्रांतस्तपसा कृशविग्रहः
पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः
भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय
कथयामि यथार्थं ते निजचेतोविचेष्टितम्
संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम्
स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः
शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम्
शिखराणि गिरींद्राणां मया चाध्युषितान्यहो 4.2.74.
रसायनानि बहुशः सेवितानि मया पुनः
मया प्रविष्टा बहुशः कृतांतवदनोपमाः
परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो
मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना
तेनैव महती सिद्धिर्भवित्री मम नान्यथा
अनेनैव शरीरेण पार्थिवेन प्रथीयसी
प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् मुमुक्षूणां धृतवतां महापाशुपतं व्रतम्
शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम्