मंदिरस्यावनार्थाय देवीर्वैभवनायकाः
क्षेत्रपालं तु संपूज्य सर्वावरणसंयुतम्
काली बहुविधाश्चान्या देवता विधिपालकाः
सृजस्व कन्यका दिव्याः शिवदेवार्हणे रताः ।। 1.3.1.8.
चारुविभ्रमसंयुक्ताः कामदा नित्यपावनाः
दिव्योपचारसंसिद्ध्यै सुभगाञ्छुद्धचेतसः
शैवाचारप्रसिद्ध्यर्थमादिशाभ्यर्चने मम
शौल्बिकान्सृज सद्विद्यांश्चतुर्विद्याविशारदान्
चत्वारश्च मठाः कल्प्याश्चतुर्दिक्तीर्थवासिनाम्
तेषु स्थिता मुनींद्रा मे रक्षंतु शिवपूजनम्
पालयंतु सदान्ये च युक्ताः कापालिका अपि
अव्याहताज्ञमारक्ष्यमिदं स्थानं महीभृताम्
अत्र भक्ता वितन्वन्तु शिवकार्यविनिश्चयम्
यत्तदक्षय्यफलदमारक्ष्यं शिवसेवकैः 1.3.1.8.
सर्वं संपादयिष्यामि तेषां चित्तानुकूलकम्
आगमोक्ता च पूजेयं मानुषी निर्मिता यतः
संकल्पितं भवेत्कर्म प्रीतिकृन्मम सेवकैः
विधायाभ्यर्चनाभेदाँल्लोकरक्षाकृते मुने
सत्राणि विविधान्यत्र कर्तव्यानि सहस्रशः
अव्युच्छिन्नप्रदीपस्य दातारो मम सन्निधौ
जलजं तरुजं पुष्पं कक्षजं च लतोद्भवम्
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः
तत्तत्समर्द्धितं रम्यं संभवं ददतेऽत्र मे
शिवभक्ता भृशं पूर्णा भविष्यंति न संशयः ।। 1.3.1.8.
इति शंभुमुखोत्थितं वचः समुपश्रुत्य विधूतकल्मषः
विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः
अक्षिपेयामृतेशानः स्त्रीपुंभावप्रदायकः
मुखरांघ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः