विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः
तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः
रुरुश्चंडोसितांगश्च कपाली क्रोधनस्तथा
चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः
श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः
नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः
विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः
जंभको जृंभणमुखो ज्वालानेत्रो वृकोदरः
ज्वलत्केशः कंबुशिराः खर्वग्रीवो महाहनुः
इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः 4.2.72.
तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ।। 4.2.72.
काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम्
पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः
भारद्वाजस्य तनयो दमनो नाम नामतः
संसारदुःखबहुलं जीवितं चापि चंचलम्
कांचिद्दिशं समालंब्य निर्वेदं परमं गतः
प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः
अध्युवास स तावंति संयतेंद्रियमानसः
मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः
रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम्
दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह
304b विभूतिभूषिततनून्कृतलिंगसमर्चनान् 4.2.74.
स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान्
प्रबद्धहस्तयुगलः प्रणमतरकंधरः
वार्धकेन समाक्रांतस्तपसा कृशविग्रहः
पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः
भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय
कथयामि यथार्थं ते निजचेतोविचेष्टितम्
संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम्
स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः