अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति
ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित्
अनया कवचं कृत्वा मा बिभेतु यमादपि
झोटिंगा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः
वातपित्तादि जनितास्तथा च विषमज्वराः
वज्रपंजर नामैतत्स्तोत्रं दुर्गाप्रशंसनम्
अष्टजप्तेन चानेन योभिमंत्र्य जलं पिबेत्
गर्भपीडा तु नो जातु भविष्यत्यभिमंत्रणात्
यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति
रक्षां परिकरिष्यंति मद्भक्तानां ममाज्ञया 4.2.72.
तेपि स्वर्गौकसः सर्वे स्वंस्वं स्वर्गं ययुर्मुदा स्कंद उवाच काश्यां सेव्या यथा सा च तच्छृणुष्व वदामि ते
अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः
नवरात्रं प्रयत्नेन प्रत्यहं सा समर्चिता
महापूजोपहारैश्च महाबलिनिवेदनैः
प्रतिसंवत्सरं तस्याः कार्या यात्रा प्रयत्नतः
यो न सांवत्सरीं यात्रां दुर्गायाः कुरुते कुधीः
दुर्गाकुंडे नरः स्नात्वा सर्वदुर्गार्तिहारिणीम्
सा दुर्गाशक्तिभिः सार्धं काशीं रक्षति सर्वतः
रक्षंति क्षेत्रमेतद्वै तथान्या नवशक्तयः
शतनेत्रा सहस्रास्या तथायुतभुजापरा 4.2.72.
विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः
तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः
रुरुश्चंडोसितांगश्च कपाली क्रोधनस्तथा
चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः
श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः
नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः
विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः
जंभको जृंभणमुखो ज्वालानेत्रो वृकोदरः
ज्वलत्केशः कंबुशिराः खर्वग्रीवो महाहनुः
इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः 4.2.72.