मातस्त्वयाद्य विनिहत्य महासुरेंद्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् 4.2.72.
लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवंतः
त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु
चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम्
प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि
ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः
पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च
श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चंडी कपोलयुगलं रसनां च वाणी
कंठप्रदेशमवतादिह नीलकंठी भूदारशक्तिरनिशं च कृकाटिकायाम्
हस्तांगुलीः कमलजा विरजा नखांश्च कक्षांतरं तरणिमंडलगा तमोघ्नी 4.2.72.
अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम्
ऊरुद्वयं च विपुला ललिता च जानू जंघे जवाऽवतु कठोरतरात्र गुल्फौ
गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा
यशः पातु महादेवी धर्मं पातु धनुर्धरी
रणे राजकुले द्यूते संग्रामे शत्रुसंकटे
इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः
ततस्तुष्टा जगन्माता तानाह सुरसत्तमान्
तुष्टाहमनया स्तुत्या नितरां तु यथार्थया
तस्याहं नाशयिष्यामि विपदं च पदे पदे
एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः 4.2.72.
अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति
ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित्
अनया कवचं कृत्वा मा बिभेतु यमादपि
झोटिंगा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः
वातपित्तादि जनितास्तथा च विषमज्वराः
वज्रपंजर नामैतत्स्तोत्रं दुर्गाप्रशंसनम्
अष्टजप्तेन चानेन योभिमंत्र्य जलं पिबेत्
गर्भपीडा तु नो जातु भविष्यत्यभिमंत्रणात्
यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति
रक्षां परिकरिष्यंति मद्भक्तानां ममाज्ञया 4.2.72.