त्वमैंद्री त्वं च कौबेरी वायवी त्वं त्वमंबुपा 4.2.72.
शशांककौमुदी त्वं च सौरी शक्तिस्त्वमेव च
त्वं गौरी त्वं च सावित्री त्वं गायत्री सरस्वती
चेतः स्वरूपिणी त्वं वै त्वं सर्वेंद्रियरूपिणी
शब्दादि रूपिणी त्वं वै करणानुग्रहा त्वमु
त्वं परासि महादेवि त्वं च देवि परापरा
सर्वरूपा त्वमीशानि त्वमरूपासि सर्वगे
वषड्वौषट्स्वरूपासि त्वमेव प्रणवात्मिका
चतुर्वर्गात्मिका त्वं वै चतुर्वर्गफलोदये
यद्दृश्यं यददृश्यं च स्थूलसूक्ष्मस्वरूपतः
मातस्त्वयाद्य विनिहत्य महासुरेंद्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् 4.2.72.
लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवंतः
त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु
चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम्
प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि
ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः
पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च
श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चंडी कपोलयुगलं रसनां च वाणी
कंठप्रदेशमवतादिह नीलकंठी भूदारशक्तिरनिशं च कृकाटिकायाम्
हस्तांगुलीः कमलजा विरजा नखांश्च कक्षांतरं तरणिमंडलगा तमोघ्नी 4.2.72.
अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम्
ऊरुद्वयं च विपुला ललिता च जानू जंघे जवाऽवतु कठोरतरात्र गुल्फौ
गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा
यशः पातु महादेवी धर्मं पातु धनुर्धरी
रणे राजकुले द्यूते संग्रामे शत्रुसंकटे
इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः
ततस्तुष्टा जगन्माता तानाह सुरसत्तमान्
तुष्टाहमनया स्तुत्या नितरां तु यथार्थया
तस्याहं नाशयिष्यामि विपदं च पदे पदे
एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः 4.2.72.