जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता 4.2.72.
स्तंभनी मोहनीमाया बहुमाया बलोत्कटा
क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना
वार्ताली जंभली क्लिन्ना अश्वारूढा सुरेश्वरी
बलानि बलिनां ताभिर्दानवानां स्वलीलया
तावत्स दुर्गो दैत्येंद्रः पयोदांतरतो बली
ततो भगवती देवी शोषणास्त्र प्रयोगतः
योषिन्मनोरथवती षंढं प्राप्य यथाऽफला
अथ दैतेयराजेन बाहुसंकर्षकोपतः
अद्रेः शृंगं सुविस्तीर्णमापतत्परिवीक्ष्य सा
आंदोल्य मौलिमसकृत्कुंडलाभ्यां विराजितम् 4.2.72.
शैलाकारं तमायांतं दृष्ट्वा भगवती गजम्
ततोत्यंतं स चीत्कृत्य देव्याकृत्तकरःकरी
अचलां सचलां सर्वां स चक्रे सुरघाततः
निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः
महामहिषरूपेण तेन त्रैलोक्यमंडपः
ब्रह्मांडमप्यकांडेन तद्भयेन समाकुलम्
त्रिशूलघातविभ्रांतः पतित्वा पुनरुत्थितः
स दुर्गो नितरां दुर्गो विबभौ समराजिरे
अथ तूर्णं स दैत्येंद्रस्तां देवीं रणकोविदाम्
ततो नभोंगणाद्दूरात्क्षिप्त्वा स जगदंबिकाम् 4.2.72.
अथांतरिक्षगा देवी तस्य मार्गणमध्यगा
तं विधूय शरत्रातं निजेषु निकरैरलम्
हृदि विद्धस्तया देव्या स च तेन महेषुणा
महारुधिरधाराभिः स्रवंतीं च प्रवर्तयन्
देवदुंदुभयो नेदुः प्रहृष्टानि जगंति च
पुष्पवृष्टिं प्रकुर्वंतः प्राप्ता देवा महर्षिभिः
महेश्वर महाशक्ते दैत्यद्रुमकुठारके
त्रैलोक्यव्यापिनि शिवे शंखचक्रगदाधरि
हंसयाने नमस्तुभ्यं सर्वसृष्टिविधायिनि