श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम्
पार्वतीहृदयानंद स्कंद सर्वज्ञनंदन
आख्याम्याख्यां शृणु मुने कुंभसंभव तत्त्वतः
त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुंदरी
कामाख्या कमलाक्षी च धृतिस्त्रिपुरतापनी ।। जया जयंती विजया जलेशी चापराजिता
शंखिनी गजवक्त्रा च महिषघ्नी रणप्रिया
त्रिनेत्रा च त्रिवक्त्रा च त्रिपदा सर्वमंगला
सिद्धिर्बुद्धिः स्वधा स्वाहा महानिद्रा शराशना
मयूरवदना काकी शुकी भासी गरुत्मती
अक्षरा त्र्यक्षरा तंतुः प्रणवेशी स्वरात्मिका
जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता 4.2.72.
स्तंभनी मोहनीमाया बहुमाया बलोत्कटा
क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना
वार्ताली जंभली क्लिन्ना अश्वारूढा सुरेश्वरी
बलानि बलिनां ताभिर्दानवानां स्वलीलया
तावत्स दुर्गो दैत्येंद्रः पयोदांतरतो बली
ततो भगवती देवी शोषणास्त्र प्रयोगतः
योषिन्मनोरथवती षंढं प्राप्य यथाऽफला
अथ दैतेयराजेन बाहुसंकर्षकोपतः
अद्रेः शृंगं सुविस्तीर्णमापतत्परिवीक्ष्य सा
आंदोल्य मौलिमसकृत्कुंडलाभ्यां विराजितम् 4.2.72.
शैलाकारं तमायांतं दृष्ट्वा भगवती गजम्
ततोत्यंतं स चीत्कृत्य देव्याकृत्तकरःकरी
अचलां सचलां सर्वां स चक्रे सुरघाततः
निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः
महामहिषरूपेण तेन त्रैलोक्यमंडपः
ब्रह्मांडमप्यकांडेन तद्भयेन समाकुलम्
त्रिशूलघातविभ्रांतः पतित्वा पुनरुत्थितः
स दुर्गो नितरां दुर्गो विबभौ समराजिरे
अथ तूर्णं स दैत्येंद्रस्तां देवीं रणकोविदाम्