आम्रातकेश्वरात्क्षेत्राल्लिंगं सूक्ष्मेश संज्ञितम्
विकट द्विजसंज्ञस्य गणेशस्य समीपतः 4.2.69.
संप्राप्तमिह देवेशं जयंतं मधुकेश्वरात्
जयंतेश्वरमालोक्य स्नात्वा गंगाजले शुभे
प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरांतकः
त्रिपुरांतकमालोक्य तत्फलं हेलयाप्यते
संपूज्य परया भक्त्या न नरो गर्भमाविशेत्
वक्रतुंड गणाध्यक्ष समीपे सोपतिष्ठते
जालेश्वरात्त्रिशूली च स्वयमीशः समागतः
रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः
हरेश्वरो हरिश्चंद्रात्क्षेत्रादत्र समागतः 4.2.69.
इह शर्वः समायातः स्थानान्मध्यमकेश्वरात्
शर्वं लिंगं समभ्यर्च्य काश्यां परमसिद्धिकृत्
स्थलेश्वरान्महालिंगं प्रादुर्भूतं परंत्विह
महालिंगं समभ्यर्च्य महाश्रद्धासमन्वितः
इह लिंगं सहस्राक्षं सुवर्णाख्यात्समागतम्
शैलेश्वरादवाच्यां तु सहस्राक्षेश्वरं विभुम्
हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम्
मंत्रेश्वर समीपे तु प्रासादो हर्षितेशितुः
इह स्वयं समायातो रुद्रो रुद्रमहालयात्
यैस्तु रुद्रेश्वरं लिंगं काश्यामत्र समर्चितम् 4.2.69.
त्रिपुरेश समीपे तु दृष्ट्वा रुद्रेश्वरं विभुम्
आगादिह महादेवो वृषेशो वृषभध्वजात्
इहागतं तु केदारादीशानेश्वर संज्ञितम्
ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहांभसि
भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा
पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात्
उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः
उग्रं लिंगं सदा सेव्यं प्राच्यामर्कविनायकात्
वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः