पार्वतीश्वर लिंगस्य समीपे सर्वसिद्धिकृत्
तत्प्रासादस्य परितो रुद्राणां कोटिसंमिताः 4.2.69.
काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः
पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम्
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा
स्वयमेकांबरात्क्षेत्रात्कृत्तिवासा इहागतः
अस्मिन्स्थाने स्वभक्तानां सांबः सर्षिगणो विभुः
क्षेत्रेत्र सिद्धिदे प्राप्तश्चंडीशो मरुजांगलात्
पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति
कालंजरान्नीलकंठस्तिष्ठेदत्र स्वयं विभुः
नीलकंठेश्वरं लिंगं काश्यां यैः परिपूजितम् 4.2.69.
काश्मीरादिह संप्राप्तं लिंगं विजयसंज्ञितम्
रणे राजकुले द्यूते विवादे सर्वदैव हि
ऊर्ध्वरेतास्त्रिदंडायाः संप्राप्तोत्र स्वयं विभुः
ऊर्ध्वां गतिमवाप्नोति वीक्षणादूर्ध्वरेतसः
मंडलेश्वरतः क्षेत्राल्लिंगं श्रीकंठसंज्ञितम्
श्रीकंठस्य च ये भक्ताः श्रीकंठा एव ते नराः
छागलांडान्महातीर्थात्कपर्दीश्ववरसंज्ञितः
कपर्दीशं समभ्यर्च्य न नरो निरयं व्रजेत्
आम्रातकेश्वरात्क्षेत्राल्लिंगं सूक्ष्मेश संज्ञितम्
विकट द्विजसंज्ञस्य गणेशस्य समीपतः 4.2.69.
संप्राप्तमिह देवेशं जयंतं मधुकेश्वरात्
जयंतेश्वरमालोक्य स्नात्वा गंगाजले शुभे
प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरांतकः
त्रिपुरांतकमालोक्य तत्फलं हेलयाप्यते
संपूज्य परया भक्त्या न नरो गर्भमाविशेत्
वक्रतुंड गणाध्यक्ष समीपे सोपतिष्ठते
जालेश्वरात्त्रिशूली च स्वयमीशः समागतः
रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः