शंभुलोके गमस्तस्य यत्रतत्र मृतस्य हि
कल्पांतरेपि न त्यक्तं कदाप्यानंदकाननम् 4.2.69.
तत्प्रसादोयमतुलः सर्वरत्नमयः शुभः
वाराणस्यामधिष्ठात्री देवता साभिलाषदा
वाराणस्यां महादेवो दृष्टो यैर्लिंगरूपधृक्
वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः
पवित्रपर्वणि सदा श्रावणे मासि यत्नतः
पितामहेश्वरं लिंगं गयातीर्थादिहागतम्
धर्मेण यत्र वै तप्तं युगानामयुतं शतम्
पितामहेश्वरं लिंगं तत्राभ्यर्च्य नरो मुदा
प्रयागात्तीर्थराजाच्च शूलटंको महेश्वरः
निर्वाणमंडपाद्रम्यादवाच्यामतिनिर्मलः 4.2.69.
देवेनैव वरो दत्तो यत्र पूर्वं युगांतरे
यः प्रयाग इह स्नातो नमस्यति महेश्वरम्
प्रयागस्नानजात्पुण्याच्छूलटंक विलोकनात्
शंकुकर्णान्महाक्षेत्रान्महातेज इतीरितम्
महातेजोनिधिस्तस्य प्रासादोतीवनिर्मलः
तल्लिंगदर्शनात्स्पर्शात्स्तवनाच्च समर्चनात्
विनायकेश्वरात्पूर्वं महातेजः समर्चनात्
रुद्रकोटिसमाख्यातात्तीर्थात्परमपावनात्
पार्वतीश्वर लिंगस्य समीपे सर्वसिद्धिकृत्
तत्प्रासादस्य परितो रुद्राणां कोटिसंमिताः 4.2.69.
काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः
पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम्
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा
स्वयमेकांबरात्क्षेत्रात्कृत्तिवासा इहागतः
अस्मिन्स्थाने स्वभक्तानां सांबः सर्षिगणो विभुः
क्षेत्रेत्र सिद्धिदे प्राप्तश्चंडीशो मरुजांगलात्
पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति