वेतालकुंडं तत्रास्ति सर्वव्याधिविघातकृत्
वेतालकुंडे सुस्नातो वेतालं प्रणिपत्य च
गणोस्ति तत्र द्विभुजश्चतुष्पात्पंचशीर्षकः
तदुत्तरे मुने रुद्रश्तुःशृंगोस्ति भीषणः
रोरूयते वृषाकारस्त्रिधा बद्धः स कुंभज
तेषां च संछिदां कर्तुमहं धृतकुठारकः
सुधाघटकरश्चाहं तद्वंशपरिषेककृत् 4.2.68.
महामहोपचारैश्च न विघ्नैरभिभूयते
मणिकुंडं तदग्रे तु विषव्याधिहरं परम्
मणिमाणिक्यसंपूर्ण गजाश्वरथसंकुलम्
कृत्तिवासेश्वरं लिंगं काश्यां यैर्न विलोकितम्
तल्लिंगदर्शनाच्छ्रेयो लप्स्यंते नात्र संशयः
सेवितानि नृणां मुक्त्यै भवेयुर्भावितात्मनाम्
कृत्तिप्रावरणं यत्र कृतं देवेन लीलया
स्थिते तत्रोमया सार्धं स्वेच्छया कृत्तिवाससि
देवदेवेश विश्वेश प्रासादाः सुमनोहराः
भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि
यतो यच्च समानीतं यत्र यच्च कृतास्पदम्
स्थाणुर्नाम महालिंगं देवदेवस्य मोक्षदम्
तदग्रे सन्निहत्याख्या महापुष्करिणी शुभा
तत्र स्नातं हुतं जप्तं तप्तं दत्तं शुभार्थिभिः
नैमिषाद्देवदेवोत्र ब्रह्मावर्तेन संयुतः 4.2.69.
ढुंढिराजोत्तरेभागे सिद्धिदं साधकस्य वै
ब्रह्मावर्त इति ख्यातः पुनरावृत्तिहृन्नृणाम्
तत्पुण्यं नैमिषारण्यात्कोटिकोटिगुणं स्मृतम्
लिंगं महाबलं नाम सांबादित्यसमीपतः
वाताहतस्तूलराशिरिव विद्राति दूरतः
महाबलमवाप्नोति निवार्णनगरं व्रजेत्
शशिभूषणसंज्ञं तु लिंगमत्र प्रतिष्ठितम्
प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत्