माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात्
शुक्लायां पंचदश्यां यश्चैत्र्यां कर्ता महोत्सवम्
कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च
महामहोत्सवो जातस्तस्मिन्नहनि कुंभज
यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले
तस्मिन्कुंडे नरः स्नात्वा कृत्वा च पितृतर्पणम्
स्कंद उवाच काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः ।। 4.2.68.
एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा
बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन्
बलिपुष्टैरपुष्टांगा रटतः करटाः कटु
ते हन्यमाना न्यपतंस्तस्मिन्कुंडे नभोंगणात्
आश्चर्यवंतस्तत्रत्या यात्रायां मिलिता जनाः
अस्मासु वीक्षमाणेषु काकाः कुंडेत्र ये पतन्
हंसतीर्थं तदारभ्य कृत्तिवास समीपतः
अतीव मलिनात्मानो महामलिन कर्मभिः
काश्यां सदैव वस्तव्यं स्नातव्यं हंसतीर्थके
काश्यां लिंगान्यनेकानि मुने संति पदेपदे 4.2.68.
कृत्तिवासं समाराध्य भक्तियुक्तेन चेतसा
जपो दानं तपो होमस्तर्पणं देवतार्चनम्
तीर्थं त्वनादिसंसिद्धमेतत्कलशसंभव
एतानि सिद्धलिंगानिच्छन्नानि स्युर्युगेयुगे
हंसतीर्थस्य परितो लिंगानामयुतं मुने
एकैकं सिद्धिदं नृणामविमुक्तनिवासिनाम्
लोमशेशं महालिंगं लोमशेन प्रतिष्ठितम्
मालतीशं शुभं लिंगं कृत्तिवासोत्तरे महत्
अंतकेश्वर संज्ञं च लिंगं तद्रुद्रदिक्स्थितम्
जनकेशं महालिंगं तत्पार्श्वे ज्ञानदं परम् 4.2.68.
तदुत्तरे महामूर्तिरसितांगोस्ति भैरवः
शुष्कोदरी च तत्रास्ति देवी विकटलोचना
अग्निजिह्वोस्ति वेतालस्तस्या देव्यास्तु नैर्ऋते