यदि पुण्यवती नैषा ममकृत्तिर्दिगंबर
अन्यं च मे वरं देहि यदि तुष्टोसि शंकर
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शंकरः
शृणु पुण्यनिधे दैत्य वरमन्यं सुदुर्लभम्
इदं पुण्यशरीरं ते क्षेत्रेस्मिन्मुक्तिसाधने
कृत्तिवासेश्वरं नाम महापातकनाशनम्
यावंति संति लिंगानि वाराणस्यां महांत्यपि 4.2.68.
मानवानां हितायात्र स्थास्येहं सपरिग्रहः कृतकृत्यो भवेन्मर्त्यः संसारं न विशेत्पुनः
रुद्राः पाशुपताः सिद्धा ऋषयस्तत्त्वचिंतकाः
अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः
कृत्तिवासेश्वरे लिंगे स्थास्येहं तदनुग्रहे
त्रिकालमागमिष्यंति कृत्तिवासे न संशयः
सदाचारविनिर्मुक्ताः सत्यशौचपराङ्मुखाः
शूद्रान्नसेविनो विप्रा जिह्वाला अतिलालसाः
कृत्तिवासेश्वरं प्राप्य सर्वपापविवर्जिताः
कृत्तिवासेश्वरं लिंगं सेव्यं काश्यां ततो नरैः
कृत्तिवासेश्वरे लिंगे लभ्यस्त्वेकेन जन्मना नश्येत्सद्यो विनश्येत कृत्तिवासे श्वरेक्षणात् ।।4.2.68.
कृत्तिवासेश्वरं लिंगं येर्चयिष्यंति मानवाः
अविमुक्तेऽत्र वस्तव्यं जप्तव्यं शतरुद्रियम्
सप्तकोटिमहारुद्रैः सुजप्तैर्यत्फलं भवेत्
माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात्
शुक्लायां पंचदश्यां यश्चैत्र्यां कर्ता महोत्सवम्
कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च
महामहोत्सवो जातस्तस्मिन्नहनि कुंभज
यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले
तस्मिन्कुंडे नरः स्नात्वा कृत्वा च पितृतर्पणम्
स्कंद उवाच काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः ।। 4.2.68.
एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा
बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन्
बलिपुष्टैरपुष्टांगा रटतः करटाः कटु