तस्मै कार्पटिकायाथ स दत्त्वा पारितोषिकम्
उवाचेति मनस्येव विस्मयोत्फुल्ललोचनः 4.2.66.
यस्य देशो न विदितो यस्तु वृत्तिपराङ्मुखः 4.2.66.
सुपर्वणि सुपात्राय सुताथ श्रद्धयाधिकम् 4.2.66.
प्रणम्य दंडवद्भूमौ कृतांजलिपुटौ गणौ 4.2.66.
उमा श्रुत्येति संहृष्टा कदंबकुसुमश्रियम् 4.2.66.
श्रुत्वा शैलेश माहात्म्यं श्रद्धया परया नरः
अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम्
इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे
महिषासुरपुत्रोसौ समायाति गजासुरः
यत्रयत्र धरायां स चरणं प्रमिणोति हि
ऊरुवेगेन तरवः पतंति शिखरैः सह
यस्य मौलिजसंघर्षाद्घ(?)नाव्योम त्यजंत्यपि
यस्य निःश्वाससंभारैरुत्तरंगा महाब्धयः
योजनानां सहस्राणि नवयस्य समुच्छ्रयः
यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः
यांयां दिशं समभ्येति सोयं दुःसह दानवः 4.2.68.
ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः
ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम्
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः
तव हस्ते मम वधः श्रेयानेव पुरांतक
किंचिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम्
त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः
धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः
इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः
स्वानुकूल वरं ब्रूहि ददामि सुमतेऽसुर
इत्याकर्ण्य स दैत्येंद्रः प्रत्युवाच महेश्वरम् गजासुर उवाच यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ।। 4.2.68.
इमां कृत्तिं विरूपाक्ष त्वत्त्रिशूलाग्निपाविताम्
इष्टगंधिः सदैवास्तु सदैवास्त्वतिकोमला
महातपोऽनलज्वालाः प्राप्यापि सुचिरं विभो