अन्वग्रहीदशेषात्मा प्रणतं मां दयानिधिः
आगमोक्तक्रियाभेदैः पूजां मे प्रतिपादय
अरुणाद्रीश्वराभिख्यं संपूजय तपोबलैः
रूपं मे दर्शयामास सूक्ष्मलिंगात्मना शिवः 1.3.1.8.
अशेषाऽऽवरणोपेतं कृतार्थहृदयोऽभवम्
आगमोक्तप्रकाराणामनिरीक्ष्यत्वमागतम्
जानीयां करुणामूर्ते स्वयमीश्वर मत्प्रभो
कथं स्तोत्रं कथं पूजा के वात्र परिचारकाः
कथं वा मानुषी पूजा नित्या संवर्धते तव
प्रसीद परमेशान स्वयमाज्ञापयाखिलम्
आज्ञापयत्तदा देवो विश्वकर्माणमागतम्
मंदिरं मम दिव्यं च महामणिगणोज्ज्वलम्
आबभाषे शिवः श्रीमान्नामभेदार्चनक्रमम्
शृणु तन्मे च ये सृष्टा पूजार्थं परिचारकाः 1.3.1.8.
य एष सर्वलोकानां क्षेमाय प्रथते भुवि
अरुणाद्रीश्वराभिख्यं पूज्यतां सततं त्वया
दधती स्थानमाहात्म्यमपीतकुचनामिका
उत्सवार्थो महादेवः पूज्यो भोगसुतावृतः
सारंगं परशुं विभ्रत्प्रसन्नवदनः सदा
आभया भासयँल्लोकानविकुण्ठश्रियान्वितः
सर्वभूषणसंयुक्ता शृङ्गाररसवर्द्धनी
मदंतिकमलंकुर्वन्भक्ष्यैर्भोज्यैर्बहूदयैः
उत्सवार्था परा शक्तिरंतिकस्थैव पूज्यताम्
उत्सवार्थं समभ्यर्च्यश्चक्षुरग्रेऽमृतेश्वरः 1.3.1.8.
द्वारे नन्दी महाकालः पुरस्तात्सूर्यसंनिभः
दक्षिणे मातरः पूज्या विघ्नशास्तृसमन्विताः
स्कन्दः शक्तिधरश्चैवैशानकोणे समर्च्यताम्
मंदिरं मम संपूज्य दक्षिणामूर्ति दक्षिणम्
उत्तरे ब्रह्मरूपांकं पूर्वे सारंगभूयुतम्
अपीतकुचनाथायाः सर्वशक्तिसमन्वितम्