यत्र पातालतलतो नागानां कोशवेश्मतः
शिवभक्तः स्वयं यत्र पौलस्त्यः स्वद्रिकूटतः 4.2.66.
प्रासादनिर्मितिं श्रुत्वा भक्ता द्वीपांतरस्थिताः
चिंतामणिः स्वयं यत्र कमर्णे विश्वकर्मणे
नानावर्णपताकाश्च यत्र कल्पमहीरुहः
अब्धयो यत्र सततं दधिक्षीरेक्षुसर्पिषाम्
यत्र कामदुघा नित्यं स्नपयेन्मधुधारया
गंधसाररसैर्यं च सेवते मलयाचलः
इत्याद्य पूर्वं यत्रास्ति प्रत्यहं शंकरालये
इति तस्य समृद्धिं तां दृष्ट्वा जामातुरद्रिराट
तस्मै कार्पटिकायाथ स दत्त्वा पारितोषिकम्
उवाचेति मनस्येव विस्मयोत्फुल्ललोचनः 4.2.66.
यस्य देशो न विदितो यस्तु वृत्तिपराङ्मुखः 4.2.66.
सुपर्वणि सुपात्राय सुताथ श्रद्धयाधिकम् 4.2.66.
प्रणम्य दंडवद्भूमौ कृतांजलिपुटौ गणौ 4.2.66.
उमा श्रुत्येति संहृष्टा कदंबकुसुमश्रियम् 4.2.66.
श्रुत्वा शैलेश माहात्म्यं श्रद्धया परया नरः
अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम्
इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे
महिषासुरपुत्रोसौ समायाति गजासुरः
यत्रयत्र धरायां स चरणं प्रमिणोति हि
ऊरुवेगेन तरवः पतंति शिखरैः सह
यस्य मौलिजसंघर्षाद्घ(?)नाव्योम त्यजंत्यपि
यस्य निःश्वाससंभारैरुत्तरंगा महाब्धयः
योजनानां सहस्राणि नवयस्य समुच्छ्रयः
यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः
यांयां दिशं समभ्येति सोयं दुःसह दानवः 4.2.68.
ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः
ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम्
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः