मणिमाणिक्यरत्नानामुच्छलच्चारुरोचिषाम्
द्यावाभूम्योरंतरालं तथेति समवैम्यहम् 4.2.66.
अपि वैकुंठभुवने नेतरस्येह का कथा
तावत्कार्पटिकः कश्चित्तल्लोचनपथं गतः
स्वपुरोदंतमाख्याहि किमपूर्वमिहाध्वग
कोत्र संप्रत्यधिष्ठाता किमधिष्ठातृ चेष्टितम्
सोपि कार्पटिकस्तस्य गिरिराजस्य भाषितम्
अहानि पंचषाण्येव व्यतिक्रांतानि मानद
समायाते जगन्नाथे पर्वतेंद्र सुतापतौ
यो वै जगदधिष्ठाता सोधिष्ठातात्र सर्वगः
मन्ये दृषत्स्वरूपोसि दृषदोपि कठोरधीः
स्वभावकठिनात्मापि स वरं हिमवान्गिरिः 4.2.66.
बिभ्रत्सहज काठिन्यं जातो गौरीगुरुर्गुरुः
चेष्टितं तस्य को वेद वेदवेद्यस्य चेशितुः
अधिष्ठाता मया ख्यातस्तथाधिष्ठातृ चेष्टितम्
शुभे ज्येष्ठेश्वरस्थाने सांप्रतं स उमापतिः
आविष्करोति पथिकोऽद्रींद्रो हृष्येत्तदातदा
उमानामामृतं पीतं येनेह जगतीतले
उमेतिद्व्यक्षरं मंत्रं योऽहर्निशमनुस्मरेत्
पुनः शुश्राव हिमवान्हृष्टः कार्पटिकोदितम् कार्पटिक उवाच राजन्विश्वेश्वरार्थेयः प्रासादो विश्वकर्मणा
निर्मीयते सुनिर्माणो जन्मि निर्वाणदायिनः
यत्रातिमित्रतेजोभिः शलाकाभिः समंततः 4.2.66.
यत्र संति शतं स्तंभा भास्वंतो द्वादशोत्तराः
चतुर्दशसु या शोभा विष्टपेषु समंततः
चंद्रकांतमणीनां च स्तंभाधार शिलाश्च याः
पद्मरागेंद्रनीलानां शालीनाः शालभंजिकाः
स्फुरत्स्फटिकनिर्माण श्लक्ष्ण पद्मशिलातले
आरक्तपीतमंजिष्ठ नीलकिर्मीरवर्णकैः
दृक्पिच्छिला विलोक्यंते माणिक्यस्तंभराजयः
रत्नाकरेभ्यः सर्वेभ्यो गणा रत्नोच्चयान्बहून्