तथा गोमेद रत्नानां तुलालक्षमिता मुनै
गरुडोद्गाररत्नानां तुलाः प्रयुतसंमिताः 4.2.66.
अष्टांगाभरणानां च संख्या कर्तुं न शक्यते
चामराणि च भूयांसि द्रव्याण्यामोदवंति च
सर्वाण्यपि समादाय प्रतस्थे भूधरेश्वरः
अनेकरत्ननिचयैः खचिताऽखिलभूमिकाम्
सौधाग्रविविधस्वर्णकलशोज्वलदिङ्मुखाम्
महासिद्ध्यष्टकस्यापि क्रीडाभवनमद्भुतम्
इति काशीसमृद्धिं स विलोक्याभूद्विलज्जितः
प्रासादेषु प्रतोलीषु प्राकारेषु गृहेषु च
मणिमाणिक्यरत्नानामुच्छलच्चारुरोचिषाम्
द्यावाभूम्योरंतरालं तथेति समवैम्यहम् 4.2.66.
अपि वैकुंठभुवने नेतरस्येह का कथा
तावत्कार्पटिकः कश्चित्तल्लोचनपथं गतः
स्वपुरोदंतमाख्याहि किमपूर्वमिहाध्वग
कोत्र संप्रत्यधिष्ठाता किमधिष्ठातृ चेष्टितम्
सोपि कार्पटिकस्तस्य गिरिराजस्य भाषितम्
अहानि पंचषाण्येव व्यतिक्रांतानि मानद
समायाते जगन्नाथे पर्वतेंद्र सुतापतौ
यो वै जगदधिष्ठाता सोधिष्ठातात्र सर्वगः
मन्ये दृषत्स्वरूपोसि दृषदोपि कठोरधीः
स्वभावकठिनात्मापि स वरं हिमवान्गिरिः 4.2.66.
बिभ्रत्सहज काठिन्यं जातो गौरीगुरुर्गुरुः
चेष्टितं तस्य को वेद वेदवेद्यस्य चेशितुः
अधिष्ठाता मया ख्यातस्तथाधिष्ठातृ चेष्टितम्
शुभे ज्येष्ठेश्वरस्थाने सांप्रतं स उमापतिः
आविष्करोति पथिकोऽद्रींद्रो हृष्येत्तदातदा
उमानामामृतं पीतं येनेह जगतीतले
उमेतिद्व्यक्षरं मंत्रं योऽहर्निशमनुस्मरेत्
पुनः शुश्राव हिमवान्हृष्टः कार्पटिकोदितम् कार्पटिक उवाच राजन्विश्वेश्वरार्थेयः प्रासादो विश्वकर्मणा