तस्याः प्रियाया वाक्येन तदपत्यप्रियो गिरिः
नितरां बाधते प्रेम तददृष्ट्यग्निदूषितम् ।।4.2.66.
यदा प्रभृति सा गौरी निर्गता मम सद्मतः
तदालापामृतधयौ न मे शब्दग्रहौ प्रिये
जैवातृकी यतोह्नः स्याद्दूरीभूता दृशोर्मम
इत्युक्त्वादाय रत्नानि वासांसि विविधानि च
अगस्त्य उवाच कानि कानि च रत्नानि कियंत्यपि च षण्मुख
तुला मुक्ताफलानां तु कोटिद्वय परीमिताः
नवलक्षाधिकं विप्र षडस्राणां सुतेजसाम्
कोटयः पद्मरागाणां पंचावैहि तुला मुने
तथा गोमेद रत्नानां तुलालक्षमिता मुनै
गरुडोद्गाररत्नानां तुलाः प्रयुतसंमिताः 4.2.66.
अष्टांगाभरणानां च संख्या कर्तुं न शक्यते
चामराणि च भूयांसि द्रव्याण्यामोदवंति च
सर्वाण्यपि समादाय प्रतस्थे भूधरेश्वरः
अनेकरत्ननिचयैः खचिताऽखिलभूमिकाम्
सौधाग्रविविधस्वर्णकलशोज्वलदिङ्मुखाम्
महासिद्ध्यष्टकस्यापि क्रीडाभवनमद्भुतम्
इति काशीसमृद्धिं स विलोक्याभूद्विलज्जितः
प्रासादेषु प्रतोलीषु प्राकारेषु गृहेषु च
मणिमाणिक्यरत्नानामुच्छलच्चारुरोचिषाम्
द्यावाभूम्योरंतरालं तथेति समवैम्यहम् 4.2.66.
अपि वैकुंठभुवने नेतरस्येह का कथा
तावत्कार्पटिकः कश्चित्तल्लोचनपथं गतः
स्वपुरोदंतमाख्याहि किमपूर्वमिहाध्वग
कोत्र संप्रत्यधिष्ठाता किमधिष्ठातृ चेष्टितम्
सोपि कार्पटिकस्तस्य गिरिराजस्य भाषितम्
अहानि पंचषाण्येव व्यतिक्रांतानि मानद
समायाते जगन्नाथे पर्वतेंद्र सुतापतौ
यो वै जगदधिष्ठाता सोधिष्ठातात्र सर्वगः