सरश्च सुप्रतीकाख्यं तत्पुरो भासते महत्
तत्रास्त्येका महागौरी नाम्ना विजयभैरवी 4.2.66.
वरणायास्तटे रम्ये गणौ हुंडनमुंडनौ
तौ द्रष्टव्यौ प्रयत्नेन क्षेत्रनिर्विघ्न हेतवे
स्कंद उवाच इल्वलारे कथामेकां शृणुष्वावहितो भव
एकदाद्रींद्रमालोक्य मेना संहृष्टमानसम्
विवाहसमयादूर्ध्वं तस्या गौर्या गिरीश्वर
स वृषेंद्रगतिर्देवो भस्मोरग विभूषणः
अष्टौ या मातरो दृष्टा ब्राह्मी प्रभृतयः प्रिय
तस्यैकस्य न कोप्यन्योस्त्यद्वितीयस्य शूलिनः
तस्याः प्रियाया वाक्येन तदपत्यप्रियो गिरिः
नितरां बाधते प्रेम तददृष्ट्यग्निदूषितम् ।।4.2.66.
यदा प्रभृति सा गौरी निर्गता मम सद्मतः
तदालापामृतधयौ न मे शब्दग्रहौ प्रिये
जैवातृकी यतोह्नः स्याद्दूरीभूता दृशोर्मम
इत्युक्त्वादाय रत्नानि वासांसि विविधानि च
अगस्त्य उवाच कानि कानि च रत्नानि कियंत्यपि च षण्मुख
तुला मुक्ताफलानां तु कोटिद्वय परीमिताः
नवलक्षाधिकं विप्र षडस्राणां सुतेजसाम्
कोटयः पद्मरागाणां पंचावैहि तुला मुने
तथा गोमेद रत्नानां तुलालक्षमिता मुनै
गरुडोद्गाररत्नानां तुलाः प्रयुतसंमिताः 4.2.66.
अष्टांगाभरणानां च संख्या कर्तुं न शक्यते
चामराणि च भूयांसि द्रव्याण्यामोदवंति च
सर्वाण्यपि समादाय प्रतस्थे भूधरेश्वरः
अनेकरत्ननिचयैः खचिताऽखिलभूमिकाम्
सौधाग्रविविधस्वर्णकलशोज्वलदिङ्मुखाम्
महासिद्ध्यष्टकस्यापि क्रीडाभवनमद्भुतम्
इति काशीसमृद्धिं स विलोक्याभूद्विलज्जितः
प्रासादेषु प्रतोलीषु प्राकारेषु गृहेषु च